← mn86 
 mn88 →

MN87 priyajātikasūtram

Summary: The Buddha reveals to a grieving father that sorrow, lamentation, and despair arise inherently from attachment to those whom one holds dear. Though King Prasenajit initially rejects this counter-intuitive truth, Queen Mallikā skillfully guides him to recognize that personal loss of loved ones or power inevitably breeds agonizing anguish, leading him to revere the Buddha’s insight.

मध्यमनिकाये मध्यमपञ्चाशत्पाठे राजवर्गे प्रियजातिकसूत्रं सप्तमम्

एवं मया श्रुतम् — एकस्मिन्समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवनेऽनाथपिण्डदस्यारामे। तेन खलु पुनः समयेनान्यतमस्य गृहपतेरेकपुत्रकः प्रियो मनोज्ञः कालगतोऽभूत्। तस्य कालक्रियया नैव कर्मान्ताः प्रत्यभासिषुर्न भक्तं प्रत्यभासीत्। स श्मशानं गत्वाक्रन्दीत् — कुत्रैकपुत्रक, कुत्रैकपुत्रकेति! अथ खलु स गृहपतिर्येन भगवांस्तेनोपसमक्रमीत्। उपसङ्क्रम्य भगवन्तमभिवाद्यैकान्ते न्यषदत्। एकान्ते निषण्णं खलु तं गृहपतिं भगवानेतदवोचत् — न खलु ते गृहपते स्वके चित्ते स्थितस्येन्द्रियाणि, अस्ति त इन्द्रियाणामन्यथात्वमिति। किं हि मे भदन्तेन्द्रियाणां नान्यथात्वं भविष्यति? मम हि भदन्तैकपुत्रः प्रियो मनोज्ञः कालगतः। तस्य कालक्रियया नैव कर्मान्ताः प्रतिभान्ति, न भक्तं प्रतिभाति। सोऽहं श्मशानं गत्वा क्रन्दामि — कुत्रैकपुत्रक, कुत्रैकपुत्रकेति! एवमेतद्गृहपते, एवमेतद्गृहपते! प्रियजातिका हि गृहपते शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति। कस्य खलु नामैतद्भदन्तैवं भविष्यति — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति? प्रियजातिके हि खलु भदन्तानन्दसौमनस्ये प्रियप्रभविके इति। अथ खलु स गृहपतिर्भगवतो भाषितमनभिनन्द्य प्रतिक्रुश्योत्थायासनात्प्राक्रमीत्।

तेन खलु पुनः समयेन सम्बहुला अक्षधूर्ता भगवतोऽविदूरेऽक्षैरदीव्यन्। अथ खलु स गृहपतिर्येन तेऽक्षधूर्तास्तेनोपसमक्रमीत्। उपसङ्क्रम्याक्षधूर्तानेतदवोचत् — इहाहं भवन्तो येन श्रमणो गौतमस्तेनोपसमक्रमिषम्। उपसङ्क्रम्य श्रमणं गौतममभिवाद्यैकान्ते न्यषदम्। एकान्ते निषण्णं खलु मां भवन्तः श्रमणो गौतम एतदवोचत् — न खलु ते गृहपते स्वके चित्ते स्थितस्येन्द्रियाणि, अस्ति त इन्द्रियाणामन्यथात्वमिति। एवमुक्तेऽहं भवन्तः श्रमणं गौतममेतदवोचम् — किं हि मे भदन्तेन्द्रियाणां नान्यथात्वं भविष्यति? मम हि भदन्तैकपुत्रकः प्रियो मनोज्ञः कालगतः। तस्य कालक्रियया नैव कर्मान्ताः प्रतिभान्ति, न भक्तं प्रतिभाति। सोऽहं श्मशानं गत्वा क्रन्दामि — कुत्रैकपुत्रक, कुत्रैकपुत्रकेति! एवमेतद्गृहपते, एवमेतद्गृहपते! प्रियजातिका हि गृहपते शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति। कस्य खलु नामैतद्भदन्तैवं भविष्यति — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविकाः? प्रियजातिके हि खलु भदन्तानन्दसौमनस्ये प्रियप्रभविके इति। अथ खल्वहं भवन्तः श्रमणस्य गौतमस्य भाषितमनभिनन्द्य प्रतिक्रुश्योत्थायासनात्प्राक्रमिषमिति। एवमेतद्गृहपते, एवमेतद्गृहपते! प्रियजातिके हि गृहपत आनन्दसौमनस्ये प्रियप्रभविके इति। अथ खलु स गृहपतिः — समेति मेऽक्षधूर्तैरिति प्राक्रमीत्। अथ खल्विदं कथावस्त्वनुपूर्वेण राजान्तःपुरं प्राविक्षत्।

अथ खलु राजा प्रसेनजित्कौसलो मल्लिकां देवीमामान्त्रयत — इदं ते मल्लिके श्रमणेन गौतमेन भाषितम् — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति। यद्येतन्महाराज भगवता भाषितम्, एवमेतदिति। एवमेव पुनरियं मल्लिका यद्यदेव श्रमणो गतमो भाषते तत्तदेवास्याभ्यनुमोदते — यद्येतन्महाराज भगवता भाषितम्, एवमेतदिति। तद्यथापि नाम यद्यदेवाचार्योऽन्तेवासिने भाषते तत्तदेवास्यान्तेवास्यभ्यनुमोदते — एवमेतदाचार्य, एवमेतदाचार्येति। एवमेव खलु त्वं मल्लिके यद्यदेव श्रमणो गतमो भाषते तत्तदेवास्याभ्यनुमोदस इति। यद्येतन्महाराज भगवता भाषितम्, एवमेतदिति। चरापि रे मल्लिके, विनश्येति। अथ खलु मल्लिका देवी नाडीजङ्घं ब्राह्मणमामान्त्रयत — एहि त्वं ब्राह्मण, येन भगवांस्तेनोपसङ्क्रम। उपसङ्क्रम्य मम वचनेन भगवतः पादौ शिरसा वन्दस्व, अल्पाबाधमल्पातङ्कं लघूत्थानं बलं स्पर्शविहारं पृच्छ — मल्लिका भदन्त देवी भगवतः पादौ शिरसा वन्दते, अल्पाबाधमल्पातङ्कं लघूत्थानं बलं स्पर्शविहारं पृच्छतीति। एवं च वद — भाषिता नु खलु भदन्त भगवतैषा वाक् — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति? यथा ते भगवान्व्याकरोति तत्साधूद्गृह्य मह्यमारोचयेः। न हि तथागता वितथं भणन्तीति। एवं भवतीति खलु नाडीजङ्घो ब्राह्मणो मल्लिकायै देव्यै प्रतिश्रुत्य येन भगवांस्तेनोपसमक्रमीत्। उपसङ्क्रम्य भगवता सार्धं सममोदिष्ट। सम्मोदनीयां कथां सारणीयां व्यतिसार्यैकान्ते न्यषदत्। एकान्ते निषण्णः खलु नाडीजङ्घो ब्राह्मणो भगवन्तमेतदवोचत् — मल्लिका भो गौतम देवी भवतो गौतमस्य पादौ शिरसा वन्दते, अल्पाबाधमल्पातङ्कं लघूत्थानं बलं स्पर्शविहारं पृच्छति, एवं च वदति — भाषिता नु खलु भदन्त भगवतैषा वाक् — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति?

एवमेतद्ब्राह्मण, एवमेतद्ब्राह्मण! प्रियजातिका हि ब्राह्मण शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति। तदनेनाप्येतद्ब्राह्मण पर्यायेण वेदितव्यं यथा प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविकाः। भूतपूर्वं ब्राह्मणास्यामेव श्रावस्त्यामन्यतमस्याः स्त्रिया माता कालमकार्षीत्। सा तस्याः कालक्रिययोन्मत्तिका क्षिप्तचित्ता रथ्यया रथ्यां शृङ्गाटकेन शृङ्गाटकमुपसङ्क्रम्यैवं प्राह — अपि मे मातरमदर्शत, अपि मे मातरमदर्शतेति? अनेनापि खल्वेतद्ब्राह्मण पर्यायेण वेदितव्यं यथा प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

भूतपूर्वं ब्राह्मणास्यामेव श्रावस्त्यामन्यतमस्याः स्त्रियाः पिता कालमकार्षीत् (पूर्ववत्) भ्राता कालमकार्षीत् (पूर्ववत्) भगिनी कालमकार्षीत् (पूर्ववत्) पुत्रः कालमकार्षीत् (पूर्ववत्) दुहिता कालमकार्षीत् (पूर्ववत्) स्वामी कालमकार्षीत्। सा तस्य कालक्रिययोन्मत्तिका क्षिप्तचित्ता रथ्यया रथ्यां शृङ्गाटकेन शृङ्गाटकमुपसङ्क्रम्यैवं प्राह — अपि मे स्वामिनमदर्शत, अपि मे स्वामिनमदर्शतेति? अनेनापि खल्वेतद्ब्राह्मण पर्यायेण वेदितव्यं यथा प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

भूतपूर्वं ब्राह्मणास्यामेव श्रावस्त्यामन्यतमस्य पुरुषस्य माता कालमकार्षीत्। स तस्याः कालक्रिययोन्मत्तकः क्षिप्तचित्तो रथ्यया रथ्यां शृङ्गाटकेन शृङ्गाटकमुपसङ्क्रम्यैवं प्राह — अपि मे मातरमदर्शत, अपि मे मातरमदर्शतेति? अनेनापि खल्वेतद्ब्राह्मण पर्यायेण वेदितव्यं यथा प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

भूतपूर्वं ब्राह्मणास्यामेव श्रावस्त्यामन्यतमस्य पुरुषस्य पिता कालमकार्षीत् (पूर्ववत्) भ्राता कालमकार्षीत् (पूर्ववत्) भगिनी कालमकार्षीत् (पूर्ववत्) पुत्रः कालमकार्षीत् (पूर्ववत्) दुहिता कालमकार्षीत् (पूर्ववत्) भार्या कालमकार्षीत्। स तस्याः कालक्रिययोन्मत्तकः क्षिप्तचित्तो रथ्यया रथ्यां शृङ्गाटकेन शृङ्गाटकमुपसङ्क्रम्यैवं प्राह — अपि मे भार्यामदर्शत, अपि मे भार्यामदर्शतेति? अनेनापि खल्वेतद्ब्राह्मण पर्यायेण वेदितव्यं यथा प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

भूतपूर्वं ब्राह्मणास्यामेव श्रावस्त्यामन्यतमा स्त्री ज्ञातिकुलमगमत्। तस्यास्ते ज्ञातकाः स्वामिन आच्छिद्यान्यस्मै दातुकामा अभूवन्। सा च तन्नैच्छत्। अथ खलु सा स्त्री स्वामिनमेतदवोचत् — इमे मामार्यपुत्र ज्ञातकास्त्वत्त आच्छिद्यान्यस्मै दातुकामाः। अहं च तन्नेच्छामीति। अथ खलु स पुरुषस्तां स्त्रियं द्विधा छित्त्वात्मानमुदपाटयत् — उभौ प्रेत्य भविष्याव इति। अनेनापि खल्वेतद्ब्राह्मण पर्यायेण वेदितव्यं यथा प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

अथ खलु नाडीजङ्घो ब्राह्मणो भगवतो भाषितमभिनन्द्यानुमोद्योत्थायासनाद्येन मल्लिका देवी तेनोपसमक्रमीत्। उपसङ्क्रम्य यावानभूद्भगवता सार्धं कथासल्लापस्तं सर्वं मल्लिकायै देव्या आरोचयत्। अथ खलु मल्लिका देवी येन राजा प्रसेनजित्कौसलस्तेनोपसमक्रमीत्। उपसङ्क्रम्य राजानं प्रसेनजितं कौसलमेतदवोचत् — तत्किं मन्यसे महाराज, प्रिया ते वज्री कुमारीति? एवं मल्लिके, प्रिया मे वज्री कुमारीति। तत्किं मन्यसे महाराज, वज्र्यास्ते कुमार्या विपरिणामान्यथाभावादुत्पद्येरञ्शोकपरिदेवदुःखदौर्मनस्योपायासा इति? वज्र्या मे मल्लिके कुमार्या विपरिणामान्यथाभावाज्जीवितस्यापि स्यादन्यथात्वम्, किं पुनर्मे नोत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति? इदं खलु तन्महाराज तेन भगवता जानता पश्यतार्हता सम्यक्सम्बुद्धेन सन्धाय भाषितम् — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

तत्किं मन्यसे महाराज, प्रिया ते वासभा क्षत्रियेति? एवं मल्लिके, प्रिया मे वासभा क्षत्रियेति। तत्किं मन्यसे महाराज, वासभायास्ते क्षत्रियाया विपरिणामान्यथाभावादुत्पद्येरञ्शोकपरिदेवदुःखदौर्मनस्योपायासा इति? वासभाया मे मल्लिके क्षत्रियाया विपरिणामान्यथाभावाज्जीवितस्यापि स्यादन्यथात्वम्, किं पुनर्मे नोत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति? इदं खलु तन्महाराज तेन भगवता जानता पश्यतार्हता सम्यक्सम्बुद्धेन सन्धाय भाषितम् — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

तत्किं मन्यसे महाराज, प्रियस्ते विरूढकः सेनापतिरिति? एवं मल्लिके, प्रियो मे विरूढकः सेनापतिरिति। तत्किं मन्यसे महाराज, विरूढकस्य ते सेनापतेर्विपरिणामान्यथाभावादुत्पद्येरञ्शोकपरिदेवदुःखदौर्मनस्योपायासा इति? विरूढकस्य मे मल्लिके सेनापतेर्विपरिणामान्यथाभावाज्जीवितस्यापि स्यादन्यथात्वम्, किं पुनर्मे नोत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति? इदं खलु तन्महाराज तेन भगवता जानता पश्यतार्हता सम्यक्सम्बुद्धेन सन्धाय भाषितम् — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

तत्किं मन्यसे महाराज, प्रिया तेऽहमिति? एवं मल्लिके, प्रिया मेऽसि त्वमिति। तत्किं मन्यसे महाराज, मम ते विपरिणामान्यथाभावादुत्पद्येरञ्शोकपरिदेवदुःखदौर्मनस्योपायासा इति? तव हि मे मल्लिके विपरिणामान्यथाभावाज्जीवितस्यापि स्यादन्यथात्वम्, किं पुनर्मे नोत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति? इदं खलु तन्महाराज तेन भगवता जानता पश्यतार्हता सम्यक्सम्बुद्धेन सन्धाय भाषितम् — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

तत्किं मन्यसे महाराज, प्रियास्ते काशिकोसला इति? एवं मल्लिके, प्रिया मे काशिकोसलाः। काशिकोसलानां मल्लिकेऽनुभावेन काशिकचन्दनं प्रत्यनुभवामः, मालागन्धविलेपनं धारयाम इति। तत्किं मन्यसे महाराज, काशिकोसलानां ते विपरिणामान्यथाभावादुत्पद्येरञ्शोकपरिदेवदुःखदौर्मनस्योपायासा इति? काशिकोसलानां हि मे मल्लिके विपरिणामान्यथाभावाज्जीवितस्यापि स्यादन्यथात्वम्, किं पुनर्मे नोत्पत्स्यन्ते शोकपरिदेवदुःखदौर्मनस्योपायासा इति? इदं खलु तन्महाराज तेन भगवता जानता पश्यतार्हता सम्यक्सम्बुद्धेन सन्धाय भाषितम् — प्रियजातिकाः शोकपरिदेवदुःखदौर्मनस्योपायासाः प्रियप्रभविका इति।

आश्चर्यं मल्लिके, अद्भुतं मल्लिके! यावच्च स भगवान्प्रज्ञयातिविध्य मन्ये पश्यति। एहि मल्लिके, आचामयेति। अथ खलु राजा प्रसेनजित्कौसल उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा येन भगवांस्तेनाञ्जलिं प्रणम्य त्रिष्कृत्व उदानमुदानयत् — नमस्तस्मै भगवतेऽर्हते सम्यक्सम्बुद्धाय, नमस्तस्मै भगवतेऽर्हते सम्यक्सम्बुद्धाय, नमस्तस्मै भगवतेऽर्हते सम्यक्सम्बुद्धायेति॥

प्रियजातिकसूत्रं निष्ठितं सप्तमम्॥

—

madhyamanikāye madhyamapañcāśatpāṭhe rājavarge priyajātikasūtraṃ saptamam

evaṃ mayā śrutam — ekasminsamaye bhagavāñśrāvastyāṃ viharati sma jetavane'nāthapiṇḍadasyārāme. tena khalu punaḥ samayenānyatamasya gṛhapaterekaputrakaḥ priyo manojñaḥ kālagato'bhūt. tasya kālakriyayā naiva karmāntāḥ pratyabhāsiṣurna bhaktaṃ pratyabhāsīt. sa śmaśānaṃ gatvākrandīt — kutraikaputraka, kutraikaputraketi! atha khalu sa gṛhapatiryena bhagavāṃstenopasamakramīt. upasaṅkramya bhagavantamabhivādyaikānte nyaṣadat. ekānte niṣaṇṇaṃ khalu taṃ gṛhapatiṃ bhagavānetadavocat — na khalu te gṛhapate svake citte sthitasyendriyāṇi, asti ta indriyāṇāmanyathātvamiti. kiṃ hi me bhadantendriyāṇāṃ nānyathātvaṃ bhaviṣyati? mama hi bhadantaikaputraḥ priyo manojñaḥ kālagataḥ. tasya kālakriyayā naiva karmāntāḥ pratibhānti, na bhaktaṃ pratibhāti. so'haṃ śmaśānaṃ gatvā krandāmi — kutraikaputraka, kutraikaputraketi! evametadgṛhapate, evametadgṛhapate! priyajātikā hi gṛhapate śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti. kasya khalu nāmaitadbhadantaivaṃ bhaviṣyati — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti? priyajātike hi khalu bhadantānandasaumanasye priyaprabhavike iti. atha khalu sa gṛhapatirbhagavato bhāṣitamanabhinandya pratikruśyotthāyāsanātprākramīt.

tena khalu punaḥ samayena sambahulā akṣadhūrtā bhagavato'vidūre'kṣairadīvyan. atha khalu sa gṛhapatiryena te'kṣadhūrtāstenopasamakramīt. upasaṅkramyākṣadhūrtānetadavocat — ihāhaṃ bhavanto yena śramaṇo gautamastenopasamakramiṣam. upasaṅkramya śramaṇaṃ gautamamabhivādyaikānte nyaṣadam. ekānte niṣaṇṇaṃ khalu māṃ bhavantaḥ śramaṇo gautama etadavocat — na khalu te gṛhapate svake citte sthitasyendriyāṇi, asti ta indriyāṇāmanyathātvamiti. evamukte'haṃ bhavantaḥ śramaṇaṃ gautamametadavocam — kiṃ hi me bhadantendriyāṇāṃ nānyathātvaṃ bhaviṣyati? mama hi bhadantaikaputrakaḥ priyo manojñaḥ kālagataḥ. tasya kālakriyayā naiva karmāntāḥ pratibhānti, na bhaktaṃ pratibhāti. so'haṃ śmaśānaṃ gatvā krandāmi — kutraikaputraka, kutraikaputraketi! evametadgṛhapate, evametadgṛhapate! priyajātikā hi gṛhapate śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti. kasya khalu nāmaitadbhadantaivaṃ bhaviṣyati — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikāḥ? priyajātike hi khalu bhadantānandasaumanasye priyaprabhavike iti. atha khalvahaṃ bhavantaḥ śramaṇasya gautamasya bhāṣitamanabhinandya pratikruśyotthāyāsanātprākramiṣamiti. evametadgṛhapate, evametadgṛhapate! priyajātike hi gṛhapata ānandasaumanasye priyaprabhavike iti. atha khalu sa gṛhapatiḥ — sameti me'kṣadhūrtairiti prākramīt. atha khalvidaṃ kathāvastvanupūrveṇa rājāntaḥpuraṃ prāvikṣat.

atha khalu rājā prasenajitkausalo mallikāṃ devīmāmāntrayata — idaṃ te mallike śramaṇena gautamena bhāṣitam — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti. yadyetanmahārāja bhagavatā bhāṣitam, evametaditi. evameva punariyaṃ mallikā yadyadeva śramaṇo gatamo bhāṣate tattadevāsyābhyanumodate — yadyetanmahārāja bhagavatā bhāṣitam, evametaditi. tadyathāpi nāma yadyadevācāryo'ntevāsine bhāṣate tattadevāsyāntevāsyabhyanumodate — evametadācārya, evametadācāryeti. evameva khalu tvaṃ mallike yadyadeva śramaṇo gatamo bhāṣate tattadevāsyābhyanumodasa iti. yadyetanmahārāja bhagavatā bhāṣitam, evametaditi. carāpi re mallike, vinaśyeti. atha khalu mallikā devī nāḍījaṅghaṃ brāhmaṇamāmāntrayata — ehi tvaṃ brāhmaṇa, yena bhagavāṃstenopasaṅkrama. upasaṅkramya mama vacanena bhagavataḥ pādau śirasā vandasva, alpābādhamalpātaṅkaṃ laghūtthānaṃ balaṃ sparśavihāraṃ pṛccha — mallikā bhadanta devī bhagavataḥ pādau śirasā vandate, alpābādhamalpātaṅkaṃ laghūtthānaṃ balaṃ sparśavihāraṃ pṛcchatīti. evaṃ ca vada — bhāṣitā nu khalu bhadanta bhagavataiṣā vāk — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti? yathā te bhagavānvyākaroti tatsādhūdgṛhya mahyamārocayeḥ. na hi tathāgatā vitathaṃ bhaṇantīti. evaṃ bhavatīti khalu nāḍījaṅgho brāhmaṇo mallikāyai devyai pratiśrutya yena bhagavāṃstenopasamakramīt. upasaṅkramya bhagavatā sārdhaṃ samamodiṣṭa. sammodanīyāṃ kathāṃ sāraṇīyāṃ vyatisāryaikānte nyaṣadat. ekānte niṣaṇṇaḥ khalu nāḍījaṅgho brāhmaṇo bhagavantametadavocat — mallikā bho gautama devī bhavato gautamasya pādau śirasā vandate, alpābādhamalpātaṅkaṃ laghūtthānaṃ balaṃ sparśavihāraṃ pṛcchati, evaṃ ca vadati — bhāṣitā nu khalu bhadanta bhagavataiṣā vāk — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti?

evametadbrāhmaṇa, evametadbrāhmaṇa! priyajātikā hi brāhmaṇa śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti. tadanenāpyetadbrāhmaṇa paryāyeṇa veditavyaṃ yathā priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikāḥ. bhūtapūrvaṃ brāhmaṇāsyāmeva śrāvastyāmanyatamasyāḥ striyā mātā kālamakārṣīt. sā tasyāḥ kālakriyayonmattikā kṣiptacittā rathyayā rathyāṃ śṛṅgāṭakena śṛṅgāṭakamupasaṅkramyaivaṃ prāha — api me mātaramadarśata, api me mātaramadarśateti? anenāpi khalvetadbrāhmaṇa paryāyeṇa veditavyaṃ yathā priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

bhūtapūrvaṃ brāhmaṇāsyāmeva śrāvastyāmanyatamasyāḥ striyāḥ pitā kālamakārṣīt (pūrvavat) bhrātā kālamakārṣīt (pūrvavat) bhaginī kālamakārṣīt (pūrvavat) putraḥ kālamakārṣīt (pūrvavat) duhitā kālamakārṣīt (pūrvavat) svāmī kālamakārṣīt. sā tasya kālakriyayonmattikā kṣiptacittā rathyayā rathyāṃ śṛṅgāṭakena śṛṅgāṭakamupasaṅkramyaivaṃ prāha — api me svāminamadarśata, api me svāminamadarśateti? anenāpi khalvetadbrāhmaṇa paryāyeṇa veditavyaṃ yathā priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

bhūtapūrvaṃ brāhmaṇāsyāmeva śrāvastyāmanyatamasya puruṣasya mātā kālamakārṣīt. sa tasyāḥ kālakriyayonmattakaḥ kṣiptacitto rathyayā rathyāṃ śṛṅgāṭakena śṛṅgāṭakamupasaṅkramyaivaṃ prāha — api me mātaramadarśata, api me mātaramadarśateti? anenāpi khalvetadbrāhmaṇa paryāyeṇa veditavyaṃ yathā priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

bhūtapūrvaṃ brāhmaṇāsyāmeva śrāvastyāmanyatamasya puruṣasya pitā kālamakārṣīt (pūrvavat) bhrātā kālamakārṣīt (pūrvavat) bhaginī kālamakārṣīt (pūrvavat) putraḥ kālamakārṣīt (pūrvavat) duhitā kālamakārṣīt (pūrvavat) bhāryā kālamakārṣīt. sa tasyāḥ kālakriyayonmattakaḥ kṣiptacitto rathyayā rathyāṃ śṛṅgāṭakena śṛṅgāṭakamupasaṅkramyaivaṃ prāha — api me bhāryāmadarśata, api me bhāryāmadarśateti? anenāpi khalvetadbrāhmaṇa paryāyeṇa veditavyaṃ yathā priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

bhūtapūrvaṃ brāhmaṇāsyāmeva śrāvastyāmanyatamā strī jñātikulamagamat. tasyāste jñātakāḥ svāmina ācchidyānyasmai dātukāmā abhūvan. sā ca tannaicchat. atha khalu sā strī svāminametadavocat — ime māmāryaputra jñātakāstvatta ācchidyānyasmai dātukāmāḥ. ahaṃ ca tannecchāmīti. atha khalu sa puruṣastāṃ striyaṃ dvidhā chittvātmānamudapāṭayat — ubhau pretya bhaviṣyāva iti. anenāpi khalvetadbrāhmaṇa paryāyeṇa veditavyaṃ yathā priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

atha khalu nāḍījaṅgho brāhmaṇo bhagavato bhāṣitamabhinandyānumodyotthāyāsanādyena mallikā devī tenopasamakramīt. upasaṅkramya yāvānabhūdbhagavatā sārdhaṃ kathāsallāpastaṃ sarvaṃ mallikāyai devyā ārocayat. atha khalu mallikā devī yena rājā prasenajitkausalastenopasamakramīt. upasaṅkramya rājānaṃ prasenajitaṃ kausalametadavocat — tatkiṃ manyase mahārāja, priyā te vajrī kumārīti? evaṃ mallike, priyā me vajrī kumārīti. tatkiṃ manyase mahārāja, vajryāste kumāryā vipariṇāmānyathābhāvādutpadyerañśokaparidevaduḥkhadaurmanasyopāyāsā iti? vajryā me mallike kumāryā vipariṇāmānyathābhāvājjīvitasyāpi syādanyathātvam, kiṃ punarme notpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti? idaṃ khalu tanmahārāja tena bhagavatā jānatā paśyatārhatā samyaksambuddhena sandhāya bhāṣitam — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

tatkiṃ manyase mahārāja, priyā te vāsabhā kṣatriyeti? evaṃ mallike, priyā me vāsabhā kṣatriyeti. tatkiṃ manyase mahārāja, vāsabhāyāste kṣatriyāyā vipariṇāmānyathābhāvādutpadyerañśokaparidevaduḥkhadaurmanasyopāyāsā iti? vāsabhāyā me mallike kṣatriyāyā vipariṇāmānyathābhāvājjīvitasyāpi syādanyathātvam, kiṃ punarme notpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti? idaṃ khalu tanmahārāja tena bhagavatā jānatā paśyatārhatā samyaksambuddhena sandhāya bhāṣitam — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

tatkiṃ manyase mahārāja, priyaste virūḍhakaḥ senāpatiriti? evaṃ mallike, priyo me virūḍhakaḥ senāpatiriti. tatkiṃ manyase mahārāja, virūḍhakasya te senāpatervipariṇāmānyathābhāvādutpadyerañśokaparidevaduḥkhadaurmanasyopāyāsā iti? virūḍhakasya me mallike senāpatervipariṇāmānyathābhāvājjīvitasyāpi syādanyathātvam, kiṃ punarme notpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti? idaṃ khalu tanmahārāja tena bhagavatā jānatā paśyatārhatā samyaksambuddhena sandhāya bhāṣitam — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

tatkiṃ manyase mahārāja, priyā te'hamiti? evaṃ mallike, priyā me'si tvamiti. tatkiṃ manyase mahārāja, mama te vipariṇāmānyathābhāvādutpadyerañśokaparidevaduḥkhadaurmanasyopāyāsā iti? tava hi me mallike vipariṇāmānyathābhāvājjīvitasyāpi syādanyathātvam, kiṃ punarme notpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti? idaṃ khalu tanmahārāja tena bhagavatā jānatā paśyatārhatā samyaksambuddhena sandhāya bhāṣitam — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

tatkiṃ manyase mahārāja, priyāste kāśikosalā iti? evaṃ mallike, priyā me kāśikosalāḥ. kāśikosalānāṃ mallike'nubhāvena kāśikacandanaṃ pratyanubhavāmaḥ, mālāgandhavilepanaṃ dhārayāma iti. tatkiṃ manyase mahārāja, kāśikosalānāṃ te vipariṇāmānyathābhāvādutpadyerañśokaparidevaduḥkhadaurmanasyopāyāsā iti? kāśikosalānāṃ hi me mallike vipariṇāmānyathābhāvājjīvitasyāpi syādanyathātvam, kiṃ punarme notpatsyante śokaparidevaduḥkhadaurmanasyopāyāsā iti? idaṃ khalu tanmahārāja tena bhagavatā jānatā paśyatārhatā samyaksambuddhena sandhāya bhāṣitam — priyajātikāḥ śokaparidevaduḥkhadaurmanasyopāyāsāḥ priyaprabhavikā iti.

āścaryaṃ mallike, adbhutaṃ mallike! yāvacca sa bhagavānprajñayātividhya manye paśyati. ehi mallike, ācāmayeti. atha khalu rājā prasenajitkausala utthāyāsanādekāṃsamuttarāsaṅgaṃ kṛtvā yena bhagavāṃstenāñjaliṃ praṇamya triṣkṛtva udānamudānayat — namastasmai bhagavate'rhate samyaksambuddhāya, namastasmai bhagavate'rhate samyaksambuddhāya, namastasmai bhagavate'rhate samyaksambuddhāyeti..

priyajātikasūtraṃ niṣṭhitaṃ saptamam..

← mn86 
mn 
 mn88 →