9 
 11

अनिलार्कयोर्बलाबलपरीक्षा

तुषारकिरीटिनो नगपतयो यत्राभ्रंलिहा विलसन्ति, तेषां दरीगृहेभ्यो विनिःसरन् प्रभञ्जनो हिमानीशिशिरत्वात् प्रायेण लोकान् भृशं कम्पयति स्म । अत एव यदा यदा स प्रकर्षेण ववौ, तदा तदा तच्छैत्यप्रकर्षविधुता मानवा दध्रुवुः ।

अथैकदा स मरुदेवं दध्यौ — 'मद्वेगजनितप्रकम्पेनैव यदेमे जना नितान्तं विधूयन्ते, तर्हि नूनमहमेव सर्वज्यायान् बलेन' इति । एवं विमृशतस्तस्य चेतसि दर्पः पदमकरोत्, यो नचिरादेव द्विगुणतां जगाम । तस्य मनस्येवमपि विचारः प्रादुरभूत् — 'दिनकरादपि खल्वहं बलीयान्' इति । ततः स भास्वता सह स्पर्धामातनोतुम् अभिललाष । अत एव स विवस्वन्तमाहूय जगाद — “एहि, त्वं चाहं च स्वकीयस्य वीर्यस्य परीक्षाम् आचरावहै” इति । तद्वचो मार्तण्डः प्रत्यपद्यत । तदानीं पवनोऽध्वानं प्रस्थितमेकं पान्थमङ्गुल्या निर्दिश्य तपनमवोचत् — “यो नावामिममध्वगं विवस्त्रयितुं प्रभवेत्, स एव शौर्यधुरीणो मतो भवेत्” इति ।

आदौ प्रभञ्जनस्यैवावसर इति निरचायि । स च दर्पोद्धतः सकलं निजौजः सङ्क्षिप्य प्रचण्डरयेण वातुमुपचक्रमे । तेन समीरणप्रवेगेन स पान्थो मुहुर्मुहुर्वियत्युत्पतन्निव बभूव । तदानीमसौ पथिको निश्चलः सन् स्वोत्तरीयप्रभृत्यम्बराणि गाढतरं जग्राह । यद्यपि तदीयानि वासांसि भृशं प्रचकम्पिरे, तथापि नैवासौ तानि मुमोच । एवं बहुधा प्रयतमानोऽपि स मरुत्तस्य वसनमपकर्षितुं न शशाक ।

अथेदानों तिग्मांशोरवसरः समाजगाम । ततो विभावसुर्नभस्तले निजप्रचण्डकरनिकरैस्तताप । भानोरातपप्रकर्षेण सोऽध्वगः संतापाकुलचेता अभवत् । क्षणादेव तदीयगात्रेभ्यः घर्मजलकणा निपेतुः । धर्मार्दितः खिन्नः स निखिलान्यपि प्रावरणानि स्वदेहात् स्वयमेवापचकर्ष ।

एवमस्यां बलाबलपरीक्षायां दिनकर एव विजयश्रियं वरयामास । इदं समस्तं वृत्तान्तं प्रत्यक्षमालोकयतो वायोर्मानग्रन्थिर्बिभिदे । ततः स विगलितगर्वः समीरणो विवस्वन्तं क्षमामयाचत ।

9 
 11