धूमशकटमध्यास्य कदाचिज्जगाम कश्चन परिव्राट्। तदन्तिकमासीनाः पान्थास्तेन समं संललापुः। तत्रावसरे कश्चित् सार्थवाहो जगाद— “अहो! अद्य यावद्वणिज्ये भूयांसमुत्कर्षं लेभे। तेनाहं साम्प्रतं परमं प्रमोदं विन्दे। परमेका शङ्का दुनोति मेऽन्तरात्मानम्— 'यद्यकस्मादियमृद्धिर्विपद्येत, तर्ह्यमुष्य मोदस्यापि प्रलयो भवेत्' इति। कथमिव मया प्रमोदोऽसौ संरक्ष्यः?” इति।
अनन्तरं तत्रत्यः कश्चित् पौरमुख्यो व्याजहार— “स्वपक्षे किमपि गरिष्ठं पदमधिकरोम्यहम्। भाविनि पौरनिर्वाचने जयमवाप्तुं पक्षोऽयमिममेव जनमपाश्रयते। पदगरिमसम्मानादिभ्यस्तु प्रसीदति मेऽन्तरात्मा। तथाप्यमी पदमानादयो न शाश्वता इति वेद्मि। 'तेषां प्रच्युत्यां, का गतिर्मे मोदस्य' इति चिन्तोद्वेजयति मामपि।” इति।
अथैका कुटुम्बिनी प्रोवाच— “पञ्चभिस्तनयैः समलङ्कृतं मे सदनम्। समुन्नते पदे कर्म करोति मे भर्ता। सुता अपि विद्यामभ्यस्यन्ति। गेहे च मे सुखशान्तिप्रणयपरितोषाणां साम्राज्यं नित्यं विस्फुरति। परन्तु कियन्तं कालममी सन्तोषादयोऽवतिष्ठेरन्निति परितपामि। 'वृत्तिमासाद्य यदा दारकाः कृतदारा भवेयुः, तदेमे प्रणयप्रमोदादयस्तिरोदधीरन्' इत्यन्तर्मे शङ्कते। यदीमे प्रहर्षादयो जीवने परिपालनीयास्तर्हि किं मया विधेयम्?” इति।
तदाकर्ण्य स यतिः स्मितपूर्वं बभाषे— “द्रविणपदप्रणयानालम्ब्यैव युष्माकं प्रहर्षो वर्तते। तत एवोत्पद्यते साध्वसं युष्माकम्— 'वित्तादीनां विगमे हर्षोऽपि विगच्छेत्' इति। परमार्थतस्त्वानन्दो मानसी काचिदवस्था। सा हि बाह्यपदार्थान्न व्यपेक्षते। बाह्योपाधिनिरपेक्षैवान्तरिकी मुदभिरक्ष्या। यत्नेनैतत्साधयितुं शक्यते। यदीयमवस्था स्वायत्तीक्रियेत, तर्हि पदमानादिषु बाह्यपदार्थेषु प्रणष्टेष्वपि न विरमेच्चेतसः प्रहर्षः। अन्य एवान्तरः प्रमोदः, अन्ये चामी धनमानादयः। प्रमोदस्य तैश्च मिथः सम्बन्धो न परिकल्प्यः। तदैव जीवने तोषवृत्तिः शाश्वती भवेत्।” इति।
इत्थं निशम्य सम्प्रतिपन्नास्त्रयोऽपि पान्था निजगदुः— “सत्यमभाषिष्ठाः। निजां मानसीं वृत्तिं विपरिवर्तयितुं वयं प्रयतिष्यामहे।” इति।