कश्चिद् ब्रह्माधिगमजिज्ञासुर्मुमुक्षुः कमपि तत्त्वदर्शिनं यतिपुङ्गवमुपसद्य सादरं व्यजिज्ञपत् — “भगवन् ! स्वरूपाधिगमलालसोऽस्मि। अनुकम्प्यतामयं जनः, प्रदर्श्यतां च स पन्था येनाचिराद् ब्रह्मभूयं गच्छेयम्” इति।
तद्वचो निशम्य स करुणानिधिर्महायोगी तस्मै कमपि मन्त्रविशेषमुपादिदेश, जगाद च — “वत्स ! इमं मन्त्रमासंवत्सराद् आवर्तय। ततो गते च संवत्सरेऽस्यामेव तिथौ कृतस्नानः पुनर्ममान्तिकमागन्तासि” इति।
तथेति प्रतिश्रुत्य स मुमुक्षुस्तस्मादाश्रमात् प्रतस्थे। पूर्णे तु संवत्सरे स यतिपुङ्गवः काञ्चन रथ्यापरिकर्मिणीमाहूयादिदेश — “अद्य खलु कश्चिन्मद्दिदृक्षुरागन्ता। त्वं तु सम्मार्जन्योद्धूतैः पांसुभिस्तमभिषिञ्चेः” इति। सा च तदाज्ञां शिरसि निधाय तथैवाचरत्। पांस्वभिषेककलुषितचेताः स साधनपरस्तां कर्मकरीमाहननायोदियाय। भीता सा तस्मात् स्थानात् पलायाञ्चक्रे। स च तां किञ्चिदध्वानमनुद्रुत्यापि नालभमानः प्रतिनिवृत्य भूयोऽपि विहितस्नानविधिर्यतिवरस्य सकाशं जगाम।
तमवलोक्य स्मयमान इव स तत्त्वदर्शी प्रोवाच — “अद्यापि त्वमाशीविष इव रोषविषमुद्गिरसि। दन्दशूकवृत्तिर्न तेऽपगता। तस्माद् भूयोऽपि संवत्सरमेकं मन्त्रावृत्तिं विधाय परस्मिन् वत्सरेऽमुष्यामेव तिथौ पुनरेहि” इति तं समादिदेश।
अथ द्वितीयेऽपि संवत्सरे तस्यागमनवेलामुपलक्ष्य स योगी पुनस्तामेव वीथीशोधनीमाहूय बभाषे — “अद्य त्वया सम्मार्जन्या स केवलं स्प्रष्टव्यः” इति। तन्निशम्य सा भीतभीता प्रत्युवाच — “स्वामिन् ! स तु मां प्रहरेदेव”। महात्मा तामुवाच — “मा भैषीः। न त्वां स प्रहर्ता। यदि नाम भर्त्सेत, तावदेव स्यात्, न तु प्रहारः” इति।
सा च तेनानुशिष्टा तथैव चकार। सम्मार्जनीस्पर्शेन प्रकुपितोऽपि स मुमुक्षुः केवलं तां कैश्चिदाक्रोशैर्भर्त्सयामास, न तु प्रजहार। ततः पुनरपि स्नातः सन् गुरोरन्तिकमुपजगाम। तमवलोक्य गुरुर्जगाद — “दंष्ट्रा तेऽपगता, विषोष्मफूत्कारस्तु नावहीयते। ईदृशेन चेतसा कथं नु ते स्वरूपसाक्षात्कारः सम्पद्येत्? अतो याहि, पुनरपि संवत्सरं यावज्जपं समाचर्य ततः परमागमिष्यसि” इति।
व्यतीते च तृतीयेऽपि वत्सरे, यदा स जिज्ञासुराश्रमपदं प्राविविक्षुरासीत्, तदा स महात्मा तया परिचारिकयैव तस्योत्तमाङ्गे पुरीषनिकरमाकिरत्। तेन तादृशेन जुगुप्सितेनापि कर्मणा सर्वथाऽविकृतमनाः सन्नसौ प्रशान्तवदनः सस्मितं तां प्रणिपत्य व्याजहार — “अम्ब ! महते श्रेयसे समपद्यत चेष्टितं ते। मदीयां तितिक्षां परीक्ष्य मां कृतार्थयितुमेव त्वमिदं समाचरः। भृशमनुगृहीतोऽस्मि” इति तां भूयोऽपि प्रणम्य, गत्वा च विधिवत्स्नात्वा, गुरोः पादमूलमुपससाद।
तमायान्तमवलोक्य परमानन्दभरितो गुरुस्तं गाढं परिष्वज्य स्वस्यान्तिके समुपवेश्य च सस्नेहमुवाच — “वत्स ! अद्य त्वं स्वकीयपात्रतां सम्यङ् न्यरूपयः। इदानीमस्या ब्रह्मविद्याया अधिकारी सञ्जातोऽसि” इत्यभिधाय तस्मै ब्रह्मात्मैक्यविज्ञानमबीबुधत्।