निरीश्वरवादगर्वितः कोऽप्यवनीपतिर्बभूव। दिदृक्षयामुमाययौ कश्चित्परिव्राट्। आशीर्भिरेनं सम्भाव्य सस्मितमेवमपृच्छत्सः- “ईश्वरानुग्रहेण कच्चित्ते राष्ट्रे सर्वमनामयम्?” इति।
श्रुत्वेदं रुष्टो नरपतिर्जगाद “निरातङ्कमेव राष्ट्रम्। परन्त्वत्र न हि लेशतोऽपि भगवत्कारुण्यस्य हेतुता। मत्पराक्रमेणैव सर्वमिदं निरवर्ति” इति।
तदा विहसन्नेव मस्करी पुनरपि पर्यपृच्छत् “किं नु त्वमीश्वरसत्तामपलपसि?”
“नितान्तमेवापलपामि, यतोऽहं निरीश्वरोऽस्मि” इति प्रत्युवाच भूपः।
“एवमस्तु” इति निगद्य मस्करी पुनरप्राक्षीत् “त्वदाज्ञावर्तिनः कर्मकरा ऋतं भाषेरन्किमुतानृतम्? का तेऽत्र विषये वाञ्छा?”
“ऋतमेव ब्रूयुः। मृषावादिनं तु शूलाग्रमारोपयेयम्” इत्यब्रवीत्क्ष्मापः।
“कच्चिन्मानवजातेः श्रेय आकाङ्क्षसि?”
“तदेव मे परमं लक्ष्यम्। दीनानामकिञ्चनानां च परिचर्यैवास्माकमन्तिमं साध्यम्।”
“किं नु स्वराष्ट्रं परमरमणीयतायुक्तं दिदृक्षसे, उत विरूपम्?”
“अतीव कमनीयं मे राज्यं स्यादिति मेऽभिलाषः।”
“यद्येवं तर्हि व्यक्तमेवामुष्य परमेश्वरस्य सत्तामभिलषसि त्वम्। यतो हि सत्यं शिवं सुन्दरं चेति त्रितयमेव परब्रह्मस्वरूपम्। यत्र खल्वृतकल्याणरमणीयतानां निवासस्तत्र नूनं परमात्मा तस्थौ। परमेश्वरास्तित्वमन्तरा न ह्येतानि प्रकल्पन्ते” इति जगाद परिव्राट्।
वचोऽदः श्रुत्वा विसिस्मिये क्षितिपतिः, परब्रह्मतत्त्वमधिकृत्य तं मस्करिणं भूरिशः पर्यपृच्छच्च। तस्य देशिकस्योपदेशमहिम्ना नातिदीर्घेणैव कालेन सोऽवनीपतिः परमात्मनि दृढभक्तिरभूत्।