अवातरत् खलु खाग्निसप्तचन्द्रमिते ख्रिस्ताब्दे द्राविडधरण्यां रामनाथपुरे विजयरघुनाथसेतुपतेरौरसी दुहिता वेलुनाचियाराख्या । आ शैशवादेव निखिलविद्यापारदृश्वरी भूत्वा सा मेधाविनी फरांसी-आङ्ग्ल-यावनीप्रभृतीर्नानागिरोऽप्यध्यगीष्ट । अमुष्याः पाणिमग्रहीच्छिवगङ्गाधिनाथो मुतुवडुगनाथपेरियाख्यो नृपः, यो हि दशकद्वयीं यावत् स्वां प्रकृतिमनुशशास ।
नयनाद्रिसप्तचन्द्रमिते हायने प्राच्यवाणिजकसंस्थया बलादपहृते शिवगङ्गासाम्राज्ये, समरे वीरगतिमुपगते च स्वप्राणेश्वरे, सा तपस्विनी स्वसुतया सार्धमपचक्राम डिण्डिगलाख्यं पल्लीग्रामम् । तत्र च शरणागताममूम् गोपालनायको नाम दुर्गपतिः सस्नेहं निवेशयामास । हृतराज्यं म्लेच्छेभ्यः प्रत्यानेतुं दृढसङ्कल्पा सा मानिनी समाष्टकं यावच्चतुरङ्गबलसङ्ग्रहणायायतत ।
तस्मिन्नेवान्तरे कदाचित् सा महिषूरमण्डलाधिपेन हैदरालिना सङ्गममवाप । यावनीगिरा तस्या धाराप्रवाहभाषणमाकर्ण्य भृशं चमच्चकार स यवनपतिः । तदीयां विपत्सूपलभ्यमानधैर्यं राष्ट्रभक्तिं च निशाम्य परं परितोषमुपागतोऽसौ समरे साहाय्यं दातुं प्रतिजज्ञे । न केवलं तावत्, अपि तु निजदुर्गे अमुष्यै निवासायावकाशं प्रादात्, एकं सुरसदनमपि निर्माय तामसपर्यत् ।
वियदष्टसप्तचन्द्रमिते च वत्सरे म्लेच्छान् प्रति सा वीराङ्गना रणदुन्दुभिं वादयामास । म्लेच्छैः क्व निहितानि स्फोटकास्त्राणीति चारमुखाद्विदित्वा तेषां समूलकाषं कषितुं कमपि निगूढमुपायं चिन्तयामास । कुयिल्याख्या काचिदस्याः परिचारिका सर्वाङ्गेष्वाज्यमुक्षित्वा प्रज्वलितां शाटिकां वसाना स्फोटकायुधगारेऽग्निं निक्षिप्य स्वप्राणान् जुहाव । आयुधक्षयाद्धतदर्पा आङ्गलाः समराङ्गणं जहुः, राज्ञी च शिवगङ्गां प्रत्यपद्यत ।
अस्मिंस्तु सम्प्रहारे तस्या अनुयायिनी उदयालाख्या पञ्चतामयासीत् । तस्याः पुनीतस्मृतये स्त्रीणामेव काञ्चित् पृतनां सा नृपा साटोपमस्थापयत् । हैदरस्यातुलसाहाय्यं प्रति कार्तज्ञ्यं प्रकाशयितुं सारङ्गानीनगरे यवनोपासनागृहं निर्मापयामास । चिरं च धर्मेण प्रजा अनुरञ्ज्य रसग्रहसप्तशशाङ्कमिते वर्षे शिवगङ्गायामेव देहं तत्याज ।