अश्रद्धो विनश्यति

अगाधेऽन्धकूपे निपपात कश्चित् कृषीवलो गहने विपिने परिभ्रमन्।

“त्रायतां त्रायतां कश्चित् कारुणिको माम्” इत्यार्तस्वरेण सोऽतीव चुक्रोश।

तस्याक्रन्दितमुपश्रुत्य तत्राजगाम कश्चिन्महात्मा कारुण्यार्द्रहृदयस्तमुज्जिहीर्षुः।

काञ्चन ग्रन्थिलां गुणपाशिकामुपजहार सः, “मा भैषीः, अहमेव त्वामुद्धरिष्यामि” इत्याश्वास्य।

“अस्यां रज्जौ विद्यमानं पर्व दृढमालम्ब्योर्ध्वमारोह, येनाहं त्वामुदञ्चेयम्” इत्युवाच सोऽमूम् कूपान्तः प्रक्षिप्य।

संशयाविष्टचेतास्तु स हालीकः पप्रच्छ— “त्रुट्येद्यदीयं रज्जुरुदञ्चनावसरे…?”

“नैवं शङ्कनीयम्, अतिदृढेयं गुणपाशिका” इति जगाद स महात्मा।

“त्वत्कराद् भ्रश्येच्चेदाकर्षणसमये…?”

“नैतदुपपद्यते। दृढवीर्योऽहम्। गाढमेवालम्बिष्ये। अलमनेन साध्वसेन।”

“मद्गुरुत्ववशात् त्वमपि निपतेर्यदि कूपे…?”

“नैव जातु सम्भवेन्मे पतनम्। विशङ्कामपास्य यतस्व।”

“सन्दिहेऽहं ते साहाय्यके। महान्तं निष्क्रयं याचेथा यदि त्वं मत्प्राणरक्षणानन्तरम्…!”

“धिङ्मूर्खम् ! नाहं काङ्क्षे कमपि निष्क्रयमुपकारार्थम्। सहजो धर्मो मे परोपकारः।”

इत्थं महात्मना बहुशः प्रबोधितोऽपि न तद्वचसि श्रद्दधौ स कूपमण्डूकः। अत एव पञ्चत्वमाप स तस्मिन्नन्धकूपे।

रूपकात्मिका खल्वियमाख्यायिका परमार्थतः। भगवान्नारायण एव स महापुरुषः। जीवात्मा तु हालीकः। जन्मजरामरणव्याधिसङ्कुलो भवगर्तो ह्यन्धकूपः। रज्जुरेव भक्तिः। पर्वाण्येव भगवन्नामानि। अच्युतो हि भगवान्। परित्रायते सोऽस्मान् दृढतरम्, उदञ्चति च भवगर्तात्। अश्रद्दधानः सन् यस्तु जीवात्मा श्रीहरौ सन्दिहीत, मरणमृच्छेत् स खलु संसारकूप एव।