जगतीह खल्वमूः सुरभयो महीयन्ते, तदाश्रयणेन ममापि गरिमोपचीयेतेति सम्प्रधार्य रमा कदाचिद् गोकुलमुपससर्प, स्वमभिज्ञाप्य चायाचत— “युष्मास्वहं निविवत्सामि, तदत्रानुज्ञां वितरत” इति।
तदा बभाषिरे माहेय्यः— “भगवति! अर्हसि पूजां त्वमिति नास्त्यत्र संशीतिः, किन्तु चापल्यदोषात् तवापयशोऽपि प्रथतेतराम्। यमाश्रयसि त्वं स खलु मदान्धो विचेष्टत इति जागर्ति जनश्रुतिः। ततस्तुभ्यं शरणं दातुं नोत्सहामहे” इति।
“अनाहूतोपगतानां परिभवो ध्रुव इति या लोकोक्तिः सा मय्यप्यन्वर्था समजनि। अखिलमपि जगन्मामेव लिप्सते, अतो मदीयमवधीरणं नैव युज्यते” इति श्रीः।
“नावधीरणमिदम्, परन्त्वस्मासु ते संवासो मा स्म भूदित्येवाचक्ष्महे। तवाशिष एवास्माभिराशास्यन्ते” इति प्रत्यवादिषुः सुरभयः।
“गुणिन्यः परव्यसनहारिण्यश्च यूयम्। प्रथते च वो जगति सुमहान् महिमा। तदस्याः शरणागताया मे स्वदेहे कुत्राप्यङ्गे वसतिं कल्पयत। प्रपन्नपालनं हि धर्मो युष्माकम्” इत्यभ्यर्थयामास सा।
“तथास्तु, प्रपन्नत्राणं ह्यवश्यकरणीयम्। तस्मादस्माकं शकृन्मूत्रं त्वमधितिष्ठ। तेन तयोरपि महिमा वर्धिषीष्ट” इत्यनुजज्ञुस्ताः।
तदेतत् प्रतिपेदे श्रीः, तत्प्रभृत्यैव च तयोर्न्यवात्सीत्।