निष्कामपरोपकारः

दस्युः कश्चन पुरा किल पान्थप्रमथनेन प्राणिहिंसया च वित्तापहाररतो बभूव।

कदाचिदनुशयसन्तप्तचेताः स कञ्चन देशिकवरमुपसृत्य पप्रच्छ — “भगवन्, अज्ञानान्धोऽहं बहून् प्राणिनो यमसदनमनैषम्, पापानि चाकार्षं भूरीणि। साम्प्रतं सन्मार्गं लिप्सुरस्मि। कृपया मे श्रेयःपथमुपदिश” इति।

देशिकस्तु तस्मै कञ्चन नीरन्ध्रकृष्णवर्णं केतुं प्रदाय जगाद — “अमुमादाय तीर्थाटनं कुरु। यदा खल्वसौ ध्वजः श्वेतिमानमापद्येत, तदैव ते पापेभ्यो निष्कृतिर्भवित्री” इति।

तदाकर्ण्य प्रहृष्टमनाः स तस्करस्तदहरेव तीर्थयात्रां प्रचक्रमे। शताधिकेषु पुण्यतीर्थेषु सस्नौ च। तथापि स केतुर्धवलिमानं नापेदे। तेनासौ भृशं विषादं जगाम।

अथ कदाचिदरण्यपथेन गच्छन्नसौ कैश्चिद्दुराचारैर्बलादपह्रियमाणां काञ्चित् प्रमदां ददर्श। तद्दृष्ट्वा प्रज्वलितक्रोधामर्षः स तस्या रक्षणाय जवेनाभिदुद्राव।

यद्यपि ते दुरन्तकर्माणो दशाधिका आसन्, तथाप्यच्युतधैर्योऽसौ तेषामेकमादौ निपात्य तद्धस्तान्निस्त्रिंशमाच्छिद्य तान् सर्वान् संहर्तुमुपचक्रमे। प्रायेण मुहूर्ताभ्यन्तरेणैव तान् सर्वान् पापकृतः स निजघान।

तां भयविह्वलां नारीं समाश्वास्य स तस्करो मनसाऽन्वशोचत् — “प्रागेव बहून् प्राणिनो निहत्य महान्तं पापौघमहमार्जयम्। साम्प्रतममून् दशाधिकानप्यहं पञ्चतामनैषम्। अतो मे पापभारः सुतरां प्रवृद्धः” इति।

किन्त्वहो विस्मयः! तावता तस्य करे स्थितः स केतुः पूर्णतया धवलिमानमापेदे। तेन परं प्रहर्षमुपगच्छन् स तां प्रमदां स्वगृहं प्रापय्य, देशिकमुपगम्य सर्वमुदन्तं न्यवेदयत्।

तदा देशिको जगाद — “तीर्थस्नानावसरे त्वया केवलं स्वार्थ एवाकाङ्क्ष्यत। अतस्ते केतुर्मलीमस एवावतस्थे। परमबलारक्षणावसरे परोपकार एव मनसि निदधे त्वया। अत एवायमवदाततामगात्। इतः परं परोपकारपरायणो जीव। तेन त्वं परमां गतिमवाप्स्यसि” इति।