दुर्लभं प्राभृतम्

अध्यक्षधुरा किलैतेनोद्वोढव्याभूदेकस्मिन्महोत्सवे, यदायमब्दुलकलामनामा धीमान् राष्ट्रपत्यधिकारमन्वस्थात्। अनुवादाधिकारस्तु तद्भाषणस्य गुरुराजकरजगिनामधेयस्य विदुष आसीत्। प्राविशच्च सभामसौ कलामो रक्षिभिरनुगम्यमानो यथासमयम्। सभां प्रविविक्षुर्गुरुराजोऽपि किञ्चित्कालानन्तरमाससाद। बाष्पमुत्सृजन्तीं पितृभ्यामनुनीयमानां काञ्चन बालिकामद्राक्षीत्स तदा सभामण्डपे समुपविष्टानां जनानां मध्ये।

पप्रच्छ चासौ तत्पितरौ — “किमर्थमियं रोदितीति”। व्रीडानम्रमुखावाहतुस्तौ— “आर्य! अमुना कलामाख्येन महाभागेन सार्धमाभाषितुमीहतेऽसौ। वयं तु प्राकृताः। अस्मद्विधैरेतस्मिन्विषये किं वा विधातुं पार्येतेति”।

निशम्य सर्वमिदमसावगच्छत्सभामञ्चं चाध्यास्त। परिसमाप्ते चाध्यक्षभाषणे कलाममवोचत्— “त्वया सार्धमाभाषितुकामा तत्र काचन बालिका रोदितीति”।

तच्छ्रुत्वैव “किमेवम्” इत्युदीरयन्सद्यः पृष्ठतो वर्तमानमेकं रक्षिणमाहूयादिदेश कलामः— “गत्वा तामिहानयेति”।

पाञ्चालिकामिव तां बालिकामुत्क्षिप्य समेत्य च कलामस्यान्तिकमनयद्रक्षी तत्र गत्वा। अङ्के तामुपवेश्य नामादिकं च पप्रच्छ सः। ततश्चोत्पीठिकायां निहितानि कानिचन भक्ष्याणि तस्याः पाणावर्पयित्वा, कस्मिंश्चित्पत्रे स्वहस्ताक्षरं च विलिख्य तस्यै ददौ, प्रैषीच्च तां पित्रोरन्तिकम्। मूकविस्मिता बभूवुरेवमवलोक्य गुरुराजोऽन्ये च बहवः सभासदः।

प्रत्यागमनसमये गुरुराजो बालिकाया जनकान्तिकामागत्यावोचत्— “दूरदर्शनवाहिनीनां बहवश्चित्रग्राहका दृश्यप्रसारकाश्च समेता विद्यन्तेऽत्र। त्वं तेषामन्तिकमुपगम्य कलामेन सार्धं स्वदुहितुर्भावचित्रमेकं ग्राहय। भित्तिफलकमेकं निर्मापय तदीयस्वाक्षराङ्कितपत्रेण सह तद्योजयित्वा। यदा ते दुहिता वयोवृद्धा भविता, तदा सामुष्य मौल्यमवभोत्स्यते। न हि पार्येत केनापि जनकेनातोऽप्यधिकमौल्योपपन्नं प्राभृतं दातुमिति”।