कश्चिच्छिष्यगणपठ्यमाननिगमान्तध्वनिप्रतिध्वनितदिगन्तरे गुरुकुलविशेषे कस्यचिद्विदुषोऽन्तेवासिनश्चेतसि संशयः समुदपद्यत – कोऽयमात्मा साक्षी नामेति। स च विनेयः कदाचिदवसरं लब्ध्वा गुरुचरणौ प्रणिपत्य सविनयमिदं पप्रच्छ – “भगवन्! किमिदम् अन्तस्साक्ष्यमाचक्षते तत्त्वविदः? को वास्य पुरुषार्थः?” इति।
आचार्यस्तु वाचिकं किमपि प्रत्युत्तरमवितीर्य तूष्णीं स्थित्वैवम् आदिदेश – “वत्स! ममाश्रमपदमेतत् त्वमेव प्रमृड्ढि”। शिष्योऽपि गुर्वाज्ञानुवर्तिना मनसा तस्य कुटीरं सममार्जयत्। गुरुस्तु नातिदूरे पदचारव्याजेन तस्य कर्म समग्रं न्यरूपयत्।
परेद्युरपि स विनेयस्तमेवार्थं पुनरनुयुयुजे। तदापि देशिकस्तमेव व्यापारमादिदेश। सोऽपि शिष्यो निरुत्तरः सन् पुनस्तस्मिन् कर्मणि प्रावर्तत। आचार्यश्च पूर्ववदेव तस्य चेष्टितं सर्वं ददर्श। शिष्योऽपि गुरोर्वासभवनं क्षालनमार्जनादिभिः परिशोध्य यथागतं प्रतस्थे।
अथ तृतीयेऽह्नि समुपस्थिते तस्मिन् गुरुस्तं तथैव शोधनकर्मणि न्ययुङ्क्त। पुनस्तस्य कर्मणि व्यापृतस्य पुरस्तादितस्ततश्चञ्चङ्क्रम्यमाणस्तच्चेष्टितं विलोकयामास। शिष्येण तु तदहः परमादरेण गुरोः प्रकोष्ठस्य गवाक्षद्वारादीनां सर्वेऽपि कोणाः सूक्ष्मेक्षिकया निरीक्ष्य रजसो विप्रमुक्ता व्यधायिषत।
अथ तस्य प्रतियासोर्गुरुरेनमाहूय बभाषे – “वत्स! अद्ययावद् दिनत्रयं त्वयैकरूपमेव कर्मानुष्ठितम्, ननु?” इति।
तदा शिष्यः प्रत्युवाच – “बाढम्। किन्तु अद्य मया गवाक्षद्वारप्रभृतीनां प्रतिक्षणं सञ्चीयमानः सूक्ष्मोऽपि रेणुरपनीतः, अयमेव विशेषः।”
“अवालोकि मयाप्येतत्। ह्यः परह्यो वा नैवमाचरिष्ठाः। कथमिदानीमेवं व्यधाः?”
“ह्यः परह्यो वा भवन्तमेवावेक्षकं मम कर्मणोऽमंसि। अद्य पुनर्मनसि मे सहसा प्रादुरभूत् – ‘सर्वमिदं ममाचरितं स परमात्मा द्रष्टा’ इति। अत एव मयातीव यत्नेन सर्वेऽपि कोणाः परिशुद्धा व्यधायिषत।”
“यदैषा मतिर्भवति यदसौ सर्वान्तर्यामी परमात्मा नित्यसन्निहितो मम सकलचेष्टितस्य साक्षीति, तदानीमेव जनोऽयं बाह्याभ्यन्तरशौचाय प्रयतते। अयमेव बोधोऽन्तस्साक्ष्यमिति प्रोच्यते बुधैः। एतस्यैव सम्यगधिगमो ह्यात्मविद्येति त्वमवगच्छ।” इत्येवं गुरुः शिष्यमबोधयत्।