आसीदुल्लालनामा कश्चन विषयः, परिमाणे लघीयानपि सम्पत्समृद्धिसनाथो बभूव। तत्र हि प्रजास्त्वनुदिनं सुखमेधमानाः परितोषमापुः। स च प्रदेश एलालवङ्गप्रमुखसुरभिद्रव्यप्रसवभूयिष्ठो यतस्तत्क्रयणार्थिनः पारसमुद्रिका वणिजः पौनःपुन्येनाभिजग्मुः।
कालेन कियता त्वैश्वर्यमदेन स नृपतिर्विषयेष्वातीवाससञ्ज, तस्य च मदिरासेवनव्यसनिता क्रमशो ववृधे। तदानीं वणिज्यापदेशेन समायाताः पोर्तुगीसा नाम यवनाः कतिपयेषु प्रदेशेषु स्वप्रभुत्वमारुरुपुः। ते तूल्लालनाथाय भूयो भूयो वारुणीमुपहृत्य तेन साकं गाढं सौहृदं चक्रिरे।
यदास्य महीपतेर्मद्यपानासक्तिरत्यर्थमतिष्ठिपत्, तदा महिष्यभयादेवी तं बहुप्रकारैरन्वशात्, तथापि तस्य वृत्ते मनागपि न संस्कारोऽजनि। अथैकदा तैः पारङ्किकैः समुत्तेजितोऽसौ नरपतिस्तेषां मुख्यस्थानकं गत्वा तत्रैव वस्तुं प्रावर्तिष्ट। पानशौण्डतायाः कृते यत् सुराद्रव्यं क्रेतव्यमासीत्, तदर्थं निजं विषयमेव तेभ्यः समर्पयामास।
भर्तरि पोर्तुगीसाश्रये वसति, अमात्यैः प्रबोधिता सती राज्ञी राष्ट्रस्य रक्षाकृते स्वयमेव राज्यधुरमुदवोढ, पतिं च देशद्रोहिणमाचख्यौ। अथ ते पोर्तुगीसास्तेन राज्ञा समर्पितं शासनपत्रमादायोल्लालमासेदुः। तेनोपनीतमालेख्यं विलोक्य कोपाटोपाध्माताननाभयादेवी तत्पत्रं लवशो दारयित्वा दूरे प्राक्षीत्। “सन्नद्धा वयमाहवाय, परं न जातु परायत्तं विधास्याम इमं स्वविषयम्” इत्येतदधिक्षेपगर्भं धीरगम्भीरमवोचत् सा।
एतदाकर्ण्य संरम्भवशाः पोर्तुगीसाः सायुधबलसमन्विता युयुत्सवः समाययुः। देवी तु सामन्तनृपाणां साहाय्यकं ययाचे, येषु केचन साहाय्यविधानाय समाजग्मुः। पोर्तुगीसास्तु तमुल्लालराजं पुरोधाय युयुधिरे। तस्मिंस्तुमुलसंग्रामे पोर्तुगीसाणां पराभवोऽभूत्, ते च भयार्ता दिशो भेजेरे। पलायमानस्तु स उल्लालनाथः शरेण विद्धः सन् समराङ्गणे निपपात। तं च हेयैव ते पोर्तुगीसा अपाद्रवन्।
एकाकिनं भूतले प्रस्तरितं पतिं सा राज्ञी स्वप्रासादमानिन्ये। भिषजस्तस्य कृते विशिष्टं भैषज्यं विदधिरे, किन्तु तेन न कश्चन गुणः समपद्यत। स्वापराधस्य कृते महिष्याः क्षमां याचमान एव स भूपतिः पञ्चत्वमगमत्। सा देवी तस्यान्तिमाः क्रियाः सम्यङ् न्यरवर्तयत्। ततश्च तया धर्मपुरःसरं वसुन्धरा अशासि। स्वमातृभूमेस्त्राणाय तथा साहसिकं युयुधानायाः स्वातन्त्र्यस्पृहाया अभयादेव्याश्चरितं खलु चेतोहारि स्फूर्तिप्रदायकं च ननु?