आसीत् कश्चिद् युवा, यः स्वसहधर्मचारिणीसमन्वितः पण्यवीथिकामवाप्य स्थविराया एव कस्याश्चित् करात् प्रत्यहं फलानि पणीते स्म। अथ कदाचित्तदीयेन नैर्धन्येनार्द्रहृदयः स यदाकिञ्चिद् द्रविणं तस्यै साहायकमुपहरिष्यन् समुद्यतोऽभूत्, तदा तेन महता विनयेन सा जरती तन्निदानं प्रत्याचख्यौ। ततस्तेन यूनैका मनीषा समाश्रिता। स हि फलानि क्रीत्वा तेषामेकं दशनैरग्रे किञ्चिदास्वाद्य 'अहो शुक्तानीमानि!' इत्यारोपयन् व्याजहार। अथ सा जरती तेनोपनीतमपरं फलं स्वयमपि रदनैर्दष्ट्वा “मैवम्, भद्र! ननु स्वादून्येव खल्विमानि” इति यावदाचक्षीत, तावत्स युवा तस्माद्देशादपासरत्। ततश्चानन्यगतिका सा जरती तद्दशनच्छिन्नं फलं स्वयमेव बुभुजे।
इत्थमन्वहमेष वृत्तान्तः प्रववृते। अथ कदाचित् सर्वमिदं व्यापारं समीक्षमाणा तस्य दयिता तं पप्रच्छ - “आर्यपुत्र! स्वादून्येव ननु फलानि सर्वदा। अथ त्वं किमित्येवं वितथं व्याहरसि?” इति।
ततः स युवा प्रत्यवोचत् - “प्रिये! तया हि प्रशस्यतमान्येव फलानि विपण्यन्ते, परं सा तपस्विनी स्वयमेकमपि नैवाश्नाति। अतोऽमुना मिषेणापि सा प्रसूनमेकं भुञ्जीतेत्यभिसन्धाय मयैवं विधीयते” इति।
अथैकदा तस्या जरत्या अन्तिकोपविष्टा अपरा काचिदापणिका तां पर्यपृच्छत् - “अये, स पण्यार्थी युवा स्वादून्यपि फलानि शुक्तत्वेनाध्यारोपयति। तथापि त्वमस्मै तुलाकर्मणि सदैकमधिकं फलं वितरसि, कोऽत्र हेतुः?” इति।
सा च प्रत्यभाषत - “अहं वेद्मि यन्मयैकमपि फलमास्वाद्येतेति कृत्वा स महाशयः स्वयंक्रयलब्धमपि फलं शुक्तमित्यपदिशन् मह्यं प्रयच्छति। मयैतज्ज्ञातमिति तु स न वेद। तस्यैवंविधायां चेष्टायां क्षतिर्मा भूदिति मत्याहमपि प्रत्यहमेकं फलमुपरि तस्मै प्रयच्छामि” इति।
तदा सा पार्श्वस्था पण्ययोषिद् विस्मयस्मेरमुखी भूत्वोचे - “न त्वं वेत्सि स क इति, न वा स वेत्ति का त्वमिति। केवलं क्रयविक्रयप्रसङ्गे एव युवयोः संस्तवः। तथाप्यहो युवयोरुभयोरप्येषोऽन्योन्यगोचरः सानुरागसम्मानः परं कौतुकमावहतितराम्” इति।