← 290 
 292 →

विद्यादानं निष्कामव्रतम्

जाड्योपहतान्तःकरणा एव बभूवुस्तनयाः कस्यचिदवनीपतेः। तेषाममन्दान्धकारनिमग्नं बुद्धिकौशलमुद्दीपयितुं महीक्षिता प्रयुक्ता अखिला अप्युपाया भस्मन्याहुतय इव नैष्फल्यमगुः। तदनन्तरं विषण्णहृदयोऽसौ नृपतिः सचिवमण्डलेन सह मन्त्रयित्वा पटहवादनपुरःसरमेतामुद्घोषणां कारयामास यत्— “यो हि कश्चन विपश्चिद्वरोऽमून् जडबुद्धीन् तनयान् प्रज्ञाशालिनो विदध्यात्, तस्मै स्वकीयमर्धराज्यं प्रदास्यामि” इति।

अर्धराज्यसम्पल्लिप्सया समागता बहवोऽपि पण्डितम्मन्या अमुष्य राज्ञो निकषोपलायमानायां परीक्षायां पराजयमवापुः। तदन्ते कश्चित् प्रगल्भमतिर्विपश्चिद्राजसभामधिगम्य सोल्लासं दृढप्रत्ययेन च व्याजहार— “अहमेवाभिनवोपायेनैतान् कुमारान् प्रज्ञासम्पन्नान् विरचयेयम्” इति। तदीयां गिरमाकर्ण्य सन्तुष्टो नृपोऽवलम्बिततदाशस्तमेव तेषां विद्यागुरुपदे न्ययुङ्क्त।

अभिनवैरध्यापनकौशलैः स गुरुस्तानन्वशात्। तथापि तदीयोपदेशामृते जाड्यनिधीनां तेषां राजसूनूनां मनागपि नासक्तिरुदियाय। तेषामध्ययनरुचिं समुद्दीपयिषया ज्ञाननिधिना तेनाचार्येण सरसकथाव्याजेन बोधनमुपक्रान्तम्। ताश्च रोचकाः कथास्ते दत्तचित्ताः शुश्रुवुः, परञ्चाचिरादेव तेषां मानसात्ताः प्रमुषिताः।

अथ तान् मन्दबुद्धीन् स देशिकोऽन्वशात्— “मया प्रबोधिता इमाः कथा मासानन्तरं यूयमन्येभ्यः कथयेत। यद्येवं न कुर्यात, तर्ह्यहं काञ्चिदपि नवीनां कथां युष्मान् न श्रावयिष्यामि” इति।

नवकथाश्रवणौत्सुक्यात् ते राजसूनवः कथाकथने बद्धादराः समपद्यन्त। तस्यापि परिणामः स्तोककालमेवानुवृत्तो यतः कालान्तरे ता अपि कथास्ते विसस्मरुः। तद्दृष्ट्वा स देशिकः कदाचित् तान् कूपसमीपमुपनीय तत्रत्यं रज्जुं घटं च प्रदर्श्यैवं जगाद— “कूपाज्जलमुज्जिहीर्षुभिर्युष्माभिर्जलपात्रं मुहुर्मुहुर्जले निमज्जनीयमेव। सकृन्निमज्जनेनैकघटपरिमितमेव जलं लप्स्यध्वे। यद्यधिकं जलं लिप्सध्वे, तर्ह्यसकृद्घटनिमज्जनं युष्माभिर्विधेयमेव। एवमेव विद्याध्ययनेऽपि युष्माभिराचरितव्यम्। असकृदभ्यासेन मननेन चैव श्रुतविषयाः स्मृतिकोशे दृढं निधेयाः। मननं विना न हि किमपि तत्त्वं यूयमवगन्तुं शक्ष्यथ। एकं विषयं मननेनात्मसात्कृत्यैव विषयान्तरे मतिर्युष्माभिर्विधेया। केवलं नूतनविषयग्रहणासक्त्या न किमपि ज्ञानं युष्मदधीनं भवेत्। तस्मात् सम्यग्ज्ञानाय मननमेव शरणम्” इति।

एतेन सद्योदृष्टान्तेन ते जडमतयोऽपि राजकुमाराः सम्यगध्ययनक्रममवबुबुधिरे। ततः प्रभृति ते मनननिदिध्यासनादिषु दृढं प्रयतमानाः प्रचुरं ज्ञानमर्जयित्वा नीतिमार्गविशारदाः प्रज्ञाशालिनश्च सञ्जाताः। आचार्यस्यामुं लोकोत्तरं प्रयासं साफल्यमण्डितं विलोक्य परमसन्तुष्टो महीपतिस्तस्मै प्रतिज्ञातमर्धराज्यं प्रदातुं समैहत। तदा स वीतरागो देशिकः सस्मितं व्याजहार— “राजन्! विद्यासम्प्रदानं हि मे नैसर्गिकः स्वधर्मः। फलाभिसन्धिं विना स्वकर्तव्यं निर्वर्तनीयमिति धिया मयैतत् सम्पादितम्। अर्धराज्यमूरीकृत्य मया किं नु साध्यम्? राज्यप्रशासनं तु क्षत्रियाणामेव धर्मः स च त्वामेवानुगच्छति” इत्यभिधाय राज्ञा सविनयमुपायनीकृतान् प्रभूतधनकनकादीन् सर्वानपि निःस्पृहया बुद्ध्या प्रत्याख्याय स महाभागस्ततः प्रतस्थे।

← 290 
 292 →