प्रातरेकदा हि बहुयात्रिकानन्तः संस्थाप्य महितमहोदधिमवगाहिष्यमाणः प्रतस्थे कश्चन बृहत्पोतः। गगनमध्यमध्यारूढे भगवति मरीचिमालिनि कञ्चन पोताश्रयमुपागतोऽसौ सहसा कर्णकटुं निनादमुत्पाद्य तस्थौ निहतरंहः।
वैकल्यमूलमन्वेष्टुकामाः पोतवाहका यन्त्रकोविदाश्च भृशमयतन्त। अचिरादेव कस्यचिद्यन्त्रस्य वैगुण्यमत्र निदानमिति तैरन्वबोधि, किन्तु कथमसौ दोषः समाधेय इति न कोऽपि विवेद। सर्वेष्वपि हताशया विषीदत्सु, नगरप्रान्ते कश्चिद्यन्त्रतन्त्ररहस्यविद्वसतीत्युपश्रुत्य तमाह्वातुं कञ्चन दूतं प्रजिघाय पोताध्यक्षः।
नातिदीर्घेणैव कालेन स तन्त्रज्ञ आजगाम, यो हि वयोवृद्धोऽपि बहुदर्शितया ज्ञानवृद्ध आसीत्। तं पलितकेशं वीक्ष्य तस्मिन् सञ्जातावज्ञाः पोतशिल्पिनः सावज्ञमेव तं यन्त्रकक्षं निन्युः। तत्र गत्वा स निखिलानि यन्त्राणि सूक्ष्मेक्षिकया निध्याय कांश्चन प्रश्नान् पप्रच्छ। “यन्त्रविशारदा वयं यत्र निष्प्रभावाः सञ्जाताः, तत्रायं जरठः किं वा साधयेत्” इत्यवज्ञासूचको भावस्तेषां मुखमण्डलेषु पर्यस्फुरत्। एतावता पोतस्तम्भनादारभ्य प्रहरमात्रं व्यतीयाय।
मुहूर्तमिव सर्वं निदध्यौ सः, ततो वैकल्यमूलमधिगतवानिव स्वभस्त्रायाः कञ्चन लघुमुद्गरमुद्धृत्य यन्त्रस्य कस्मिश्चिद्भागे बलवज्जघान। अहो विस्मयः ! तत्क्षणादेव सर्वाण्यपि यन्त्राणि पूर्ववदेव स्वव्यापारमारेभिरे। तेन प्रमोदाश्चर्यभरिताः सर्वेऽन्योन्यमभिननन्दुः।
ततो व्यवस्थापकः कार्तज्ञ्यमाविष्कुर्वन् तं पप्रच्छ - “भोः, अस्य कर्मणः कृते कियन्ति रूप्यकाणि ते प्रतिपाद्यानि?” इति। “रूप्यकाणामयुतम्” इति स यन्त्रवेत्ता प्रोवाच।
तच्छ्रुत्वा सरोषं बभाषे व्यवस्थापकः - “कथमयुतम्? त्वया हि केवलं लघुमुद्गरेण सकृदेव प्रहृतम्, तावदेव खलु! तदर्थं कियन्महन्मूल्यं दातव्यं मया?” ततः स तन्त्रज्ञः प्रतिबभाषे - “सत्यम्, मुद्गरप्रहारस्य तु केवलं रूप्यकत्रयमेव मूल्यम्।”
“तर्हि कथमधुना त्वयायुतं याचितम्?” इति सविस्मयमनुयुयोज सः। “बाढम्। प्रहारार्थं रूप्यकत्रयमेव। किन्तु कुत्र प्रहर्तव्यमिति निर्णयाय यत् कौशलमपेक्ष्यते, तस्यैव कृते अवशिष्टानि नवसहस्राणि नवशतानि सप्तनवतिश्च रूप्यकाणि मया याच्यन्ते” इति प्रशान्तचेतसा जगाद सः।
“कौशलस्यैव मूल्यं सर्वोत्कृष्टम्” इत्यवबुध्य स व्यवस्थापकस्तस्मै विशारदाय याचितमयुतप्रमाणं समग्रमपि धनराशिं प्रदाय तं ससम्मानं प्रजिघाय।