दारुणः समजनि पुरा लङ्कासमराङ्गणे दाशरथिदशग्रीवचमूनां लोमहर्षणः सङ्ग्रामः। तस्मिन् खलु दारुणे रणमखे कदाचिदहङ्कारमत्तेन्द्रजिता सार्धं युयुधे महाबाहुः सौमित्रिः। चिच्छिदे च तुमुलहवे शक्रजितो बाहुदण्डः सौमित्रिविसृष्टेन जाज्वल्यमानेन शितास्त्रेण।
अकस्माच्च पपात स रुधिरसिक्तो बाहुदण्डो लङ्काधिपशुद्धान्तविहरन्त्याः शक्रजिद्दयितायाः सुलोचनायाः पुरस्तात्। पत्युश्छिन्नं हस्तमवलोक्य शोकावेगेन हतप्रभा सा वामदृग्विललाप “अहो धिक्, अद्यैव मया मङ्गलद्रव्यैः समर्चितेयं भुजलता समराङ्गणमवतीर्णस्य मे प्राणनाथस्य” इति।
पतिमनुमर्तुं कृतनिश्चया सा सतीचिन्तामणिर्दाहसंस्कारार्थं चिताधिरोहणायोपचक्रमे। अत्रान्तरे समपादि किञ्चन दुर्लङ्घ्यं सङ्कटम्। शिरसा विना कथं नु खल्वौर्ध्वदैहिकविधिर्विधीयेत? वर्तते हि तदीयं मस्तकं दाशरथिशिबिरे। समराङ्गणात् कथं तदाहरेमेति चिन्ताक्रान्ताः सर्वे विषादं प्रपेदुः।
निशम्यैतद् रोषताम्राक्षो दशवदनो ननाद “मा शुचः। अहमेवेदानीं तत्रोपेत्य बाहुच्छिदं जीवन्तमेव निबध्य ते चरणमूले निपातयिष्यामि, उत्तमाङ्गं चानयिष्यामि” इति। तदा मयसुता मन्दोदरी जगाद “वत्से, वृथाटोपदुर्विदग्धेष्वमीषु योधेषु हतेष्वपि न कश्चिद्विवेक उपागतः। राघवाच्छिर आदातुं नैतेषां कस्यापि सामर्थ्यम्। मन्मतेन त्वयैवैकाकिन्या तत्र गत्वा तत्प्रार्थनीयम्” इति।
“नष्टा ते प्रज्ञा” इति दशाननः प्राह “कथं नु खलु स्नुषा रिपुशिबिरं प्रविशेत्? न हि तत्र तस्याः शीलरक्षणं भवेत्” इति। प्रत्युवाच मयसुता “नैर्ऋता एव परदारानपहरेयुः, न तु धर्मकोविदो दाशरथिः। ते हि राघवपक्षीयाः सर्वथा धर्मपथादपेता न भवन्ति। तस्मादियं विश्रब्धं गच्छेत्” इति।
ततो धैर्यमवलम्ब्य सा सती रिपुशिबिरं प्रतस्थे। प्लवङ्गमास्तस्याः परिचयं प्रयोजनं चावगम्य सप्रश्रयं काकुत्स्थसविधे निन्युः। मर्यादापुरुषोत्तमस्तु स दाशरथिस्तां पतिव्रतां महार्हसत्कारैः सम्पूजयन् पत्युरुत्तमाङ्गं सविनयं प्रादात्। न केवलमेतावत्, अपि त्वन्त्यकर्मणे दिनमेकं यावद् युद्धविराममप्यघोषयत्। राघवस्यामुं लोकोत्तरमुदारव्यवहारं विलोक्य शात्रवा अपि तं तुष्टुवुः।