← 327 
 329 →

प्राणाहुतिः सूते राष्ट्रस्योन्नतिमक्षयाम्

प्रावर्तत खल्विदमाख्यानकं सप्तदशशतकस्य चरमेऽर्धे कामरूपमण्डलान्तर्गतेऽसमराज्ये। आसीत्तदानीमीषदतिक्रान्तशैशवोऽहोमवंशसम्भूतश्चतुर्दशवर्षदेशीयो रत्नध्वजनामा नृपडिम्भः। स तु कमलदलजललवचपलधीर्नाममात्रेणैव वसुन्धरामशिषत्। अभवच्च तस्य लालुकसोलाभिधानो दुरात्मतैकनिकेतनो नृशंसप्रकृतिरमात्यः। तेनैव हि कूटकर्मणा प्रागमुष्य पार्थिवस्य जनक उपांशु घातित आसीत्। अथ सकलामेव राज्यलक्ष्मीमात्मसाच्चिकीर्षुरसावमात्यः पञ्चहायनीमात्मजां तस्मै भूपतये प्रतिपाद्य, तं च जामातरं प्रकल्प्य निजां प्रभुतां सुतरां दृढीचकार।

अत्रान्तरे ‘मा भूत्कश्चिदपि मे जामातुः परिपन्थी राज्यहरः’ इतीदृशी कापि कुमतिस्तस्य चेतस्युदियाय। तदात्वप्रवृत्तया हि कुलस्थित्या विकलावयवो न कोऽपि पुरुषः सिंहासनमधिरोढुमधिकारभाग्बभूव। अत एव स पापाशयः प्रणिधीन्प्रयुज्याहोमान्वयजानां सर्वेषामेव शिशूनां यूनां चाङ्गवैकल्यमचीकरत्। किन्त्वेक एव गदापाणिनामा राजपुत्रस्तस्य क्रूरहस्तगोचरं न जगाम। स खलु मन्त्रिणो दुरभिसन्धिं कथञ्चिदुपलभ्य गूढमज्ञातवासमातस्थिवान्।

बहुधा मार्गितेऽपि तस्मिन्गदापाणौ यदासौ कुत्रापि नासादि, तदा क्रोधमूर्च्छितो लालुकसोलस्तस्य धर्मपत्नीं जयमतीमानाय्य सन्तर्जयन्नवादीत्—‘क्व नु वर्ततेऽसौ तव भर्ता?’ इति। सा त्वविकम्पितहृदया ‘नाहं वेद्मि’ इत्येव प्रत्यभाषत। ततः स नृशंसश्चपेटनिपातैर्वेत्रताडनैर्दण्डाभिघातैस्तीक्ष्णशूलव्यधनैश्च तां भृशमपीपिडत्। तथापि सा धीरसत्त्वा पत्युर्गूढवासं विवरितुं नैवाभ्युपागमत्। अथ स दुरात्मा कारागृहे तां निक्षिप्याविच्छेदेन कदनमनुवर्तयामास।

विदिते च तस्मिन्दारुणवृत्तान्ते गदापाणिः प्राणप्रियाया ईदृशीं यातनां सोढुं न शशाक। अतो निशि प्रच्छन्नवेषः कारासन्निकर्षमुपेत्य तामूचे—‘भद्रे, कस्मादचिरात् पत्युर्निलयनमाख्यायैतस्मात्कष्टजालादात्मानं मोचयसि?’ इति।

छद्मवेषधरं तमनभिज्ञायैव सा गम्भीरधीरया गिरा प्रत्युवाच—‘कथं नाम मया स्वामिनो रहस्यं भज्येत? वरमसूनपि परित्यजेयम्, न तु कदाचिदपि गुह्यं प्रकाशयेयम्। यदि त्वमस्मद्धितैषी स्याः, तर्हि मद्भर्तारमेवं ब्रूतात्—यदमुं दुरात्मानं रत्नध्वजं तस्य च कुपथोपदेष्टारं लालुकसोलं समरमूर्ध्नि निगृह्य राष्ट्रकल्याणमनुष्ठीयताम्; तयोश्च निग्रहादेव ममापि बन्धमोक्षः सिद्धो भविष्यति’ इति।

अथ किमप्यप्रतिभाष्यैव बाष्पस्तम्भितकण्ठो गदापाणिस्ततो निरगात्। ततः परं सा पतिव्रताष्टादशाहानि यावदतिदारुणां चित्रवधयातनामनुभूय पञ्चत्वमियाय। तदुपश्रुत्य मन्युदहनसन्तप्तशोणितो गदापाणिरनुजीविनां सुहृदां च वाहिनीं सङ्घटय्य, विग्रहमवघोष्य च, रत्नध्वजं लालुकसोलं च युधि निजघान। तदनन्तरं च पैतृकं सिंहासनमधिरुह्य न्यायेन प्रजाः शशास।

इत्थं महासत्या राष्ट्रानुरागिण्या जयमत्याः प्राणाहुतिप्रभावादेव स जनपदो महतीमुन्नतिमाससाद।

← 327 
 329 →