अज्ञातवस्तुतत्त्वानां भ्रान्तिः कलहकारिणी

अवसत्पुरा कस्मिंश्चिदधिष्ठाने कण्णदासनामा वणिक्स्वपत्न्या रोहिण्या समं सुखमेधमानः। तस्मिंश्च काले मुकुरो न सर्वत्र लोकव्यवहारे प्ररूढ आसीत्।

कदाचिदसौ कण्णदासः कुतश्चिदेकमादर्शमलभत। यदा च स तमद्राक्षीत्, तदा तत्र कश्चन पूरुषस्तेनालोकि। आत्मीयैवैषा प्रतिच्छाया प्रतिभातीत्यविजानन् स मुग्धचेताः—‘मञ्जूषायामधिष्ठितः कोऽप्ययं महाभागः पुरुषो भवेत्’ इत्यमन्यत।

ततः प्रभृति स वणिगहरहस्तमपवरकमर्गलेन पिधाय, मुकुरं दर्शं दर्शं तमन्तःस्थं पुरुषं प्रणम्य च पुनर्मञ्जूषायामेव तमादर्शं न्यदधात्।

इत्थं च समतीतेषु कतिपयेषु मासेषु तद्भार्याया रोहिण्याश्चित्ते विचिकित्सा समुदभूत्—‘प्रत्यहं मम प्राणेश्वरोऽपवरककपाटं संवृत्य निभृतं किमप्याचरति; किमिव तत्स्यादस्मिन्नपवरके?’ इति।

अथैकदा प्रातर्निजमाह्निकं निर्वर्त्य कण्णदासो वणिज्यायै निरगात्। तस्मिन्निर्गते सति कौतूहलतरला रोहिण्यपवरकं प्रविश्य मञ्जूषामुदघाटयत्। तत्र च मुकुरतले तया काचन चारुमुखी वनिता ददृशे। तद्वीक्ष्य विस्मयाकुलिता सा—‘कान्तो मेऽन्यां काञ्चिद्वरवर्णिनीमत्र गूढं न्यवेशयत्’ इत्याकलय्येर्ष्याकषायितमानसा भृशं चुकोप।

दिनान्ते च कण्णदासे गृहं प्रतिनिवृत्ते सति, तस्य देहलीप्रवेशात्प्रागेव रोहिणी कलहं प्राक्रमत। बाष्पपर्याकुललोचना सा चण्डी—‘पापमाचरितं त्वया! कासौ तव मञ्जूषान्तर्निलीयमाना परमरूपवती तरुणी? शठोऽसि त्वं कितवः!’ इति विलपन्ती उच्चैश्चक्रन्द।

अथ प्रकुपितां दयितामनुनेतुमनीशः कण्णदासः कञ्चन परिव्राजकमानिनाय। स च मस्कर्यादर्शस्यावलोकनमात्रेणैवावाबुध्यत यदेतत्प्रतिच्छायाग्राहकं द्रव्यमिति; यतः स्वयमेव तेन तस्मिन्मुकुरे स्वीयं मुण्डितं शिरोऽदर्शि।

ततः स परिव्राड्रोहिणीमाबभाषे—‘वत्से, या खलु तरुणी त्वया दृष्टा, साम्प्रतं सा मुण्डितमुण्डा सती प्रव्रज्यामग्रहीत्; तदलमधुना तव मन्युना, मा च कार्षीः शोकम्’ इत्युदीर्य मुकुरे निजां प्रतिच्छायां तामदीदृशत्। तेन च सा रोहिणी वीतशङ्का बभूव।

अथ स भिक्षुः—‘अनिष्टानुबन्धीदमर्थजातमतो नेह वेश्मनि स्थापयितव्यम्’ इत्यभिधाय गृहीतमुकुरस्ततः प्रतस्थे। कण्णदासोऽपि रोहिण्या सह विगतज्वरो निर्भरानन्दं कालं यापयामास।