← 330 
 332 →

अभेद्यं हि वर्म गुरुजनप्रणतिः

“श्वो निखिलानापि पाण्डवान्समरमूर्धनि हन्तास्म्यहम्” इत्येवं प्रवृत्ते महाहवे कस्मिंश्चिदहनि भीमपराक्रमः कुरुकुलपितामहो भीष्मो दिगन्तविदारिणा नादेन प्रतिजज्ञे । अमुष्य चाप्रतिमं बाहुबलं दुर्धर्षं चास्त्रपाटवं सम्यग्विद्वांसः सर्वेऽपि पाण्डुपक्षपातिनः परां भीतिमीयुः । “इत्थं चेदापतेत्, का नाम गतिरुपरिष्टाद्भविता” इति दारुणतर आतङ्क एषां चेतांस्याचक्राम । तामखिलामपि यामिनीं दुरन्तया चिन्तया दन्दह्यमाना एवामी कथञ्चिदतिचक्रमुः । न कश्चन केनचिदपि सार्धं किञ्चिदभाषिष्ट, अपि तु निखिला एव चिन्ताक्रान्तमानसा विमनायमानास्तस्थुः ।

तस्यामेव तु निशीथिन्यामुपसृत्य याज्ञसेनीं भगवान्वासुदेवो रहसीत्थमन्वशात् — “अधुनैव त्वं गाङ्गेयस्य शिविरमभिगम्य तं भक्त्या प्रणिपत” इति ।

“कस्माद्धेतोरिदानीं घोरतरेऽस्मिन्निशीथे तत्राभिगम्येत” इति विस्मयगर्भया गिरा पाञ्चाली तमप्राक्षीत् ।

ततः शौरिस्तामवोचत् — “मा स्म कमपि प्रतिप्रश्नं कार्षीः । अकालक्षेपं प्रयाह्येव” इति ।

सा तु कृष्णा भयवेपथुमती सत्यपि जनार्दने नितान्तं विश्वसती शान्तनवस्यावसथं प्रति प्रतस्थे ।

अर्धरात्रे समुपेतां पादप्रणतां पौत्रवधूमालोक्य परं विस्मयमापेदे देवव्रतः । तथाप्यसौ निजस्वभावसुलभया वात्सल्यवृत्त्या “अखण्डसौभाग्यवती भूयाः” इत्यस्यै मङ्गलाशिषं प्रादात् ।

शोकविच्छायमपि द्रुपदसुताया वदनारविन्दमस्य प्रसादातिशयस्य दर्शनात्क्षणार्धेनैव विकासमाससाद । तदुपलभ्य च कुशाग्रबुद्धिः स गङ्गासुतः सकलमपि वृत्तान्तं मनसावजगाहे । अतोऽसावीषत्स्मयमान एनामन्वयुङ्क्त — “ईदृशे निशीथसमये मामुपसृत्य प्रणामो विधेय इति किं त्वां मधुसूदनोऽशिषत्” इति ।

“न केवलमशिषत्, अपि तु स्वयमसौ मामादायात्रागमत् । बहिरेव तस्थिवानयम्” इति प्रत्यभाषत याज्ञसेनी ।

“ममैवैकस्य प्रतिज्ञावचसो मदीयेनैव वचनान्तरेण खण्डनं कारयितुमेक एव चक्रपाणिरलम् । व्रजाधुना ! तवैकेनैव प्रणिपातेन मृत्योर्दंष्ट्रान्तरात्परित्रातास्ते भर्तारः ।”

तत्सर्वमपि बहिः शुश्रुवान्भगवान्केशवो मनसैव गाङ्गेयमभिवाद्य, अपास्तं खलु श्वस्तनं प्राणसङ्कटमिति संभाव्य समाश्वसीत् ।

पाञ्चाल्या समं प्रतिनिवर्तमानेनामुनाभिहितम् — “त्वया विहितेनानेन प्रणामेन तव भर्तारो जीवितं पुनरलप्सत । यद्यहरहर्भीष्मं द्रोणाचार्यमन्यांश्च पूज्यपादांस्त्वमवन्दिष्यथाः, यद्वा धार्तराष्ट्रवध्वः पाण्डुमहीपतिं यदि प्राणंस्यन्, तर्हि प्रायेणास्य कुलक्षयकरस्य महासमरस्य प्रसङ्ग एव नोदपत्स्यत” इति ।

प्रेमप्रकर्षं विश्रम्भं सौहार्दं च समेधयन्नभेद्यं हि रक्षाकवचं निर्मिमीते गुरुजनप्रणामः । अत एव लोकेऽयं सनातनः सदाचारः प्रथतेतराम् — वृद्धाः खलु नित्यमभिवादनीया इति ।

← 330 
 332 →