भैक्षचर्याविधये कदाचिदभ्रंलिहसौधशृङ्गशालिनि राजगृहे विचरन्तः केचन भगवतः शाक्यमुनेरन्तेवासिनो राजमार्गमध्ये समुच्छ्रितस्य कस्यचन स्तम्भस्याधस्तादाबद्धममुं शासनपट्टमद्राक्षुः । उट्टङ्कितं चात्रैतदासीत्— ‘‘योऽयममुष्य स्तम्भस्य शिखरे चामीकरपरिपूर्णो मलयजसमुद्गको विराजते, यः कश्चिदेनमामृशेत्, तस्यैवासौ वसुसञ्चयो भविता’’ इति । अमुं चार्थमवधार्य काञ्चनतृष्णयारुरुक्षवो बहवोऽपि पौराः स्निग्धमुन्नतं च तं स्तम्भमारोढुं बहुशः प्रयतमाना अपि विगलितहस्तपादा भग्नमनोरथा एव विफलश्रमाः समजायन्त ।
तेषु च तथागतशिष्येष्वन्यतमो निखिलमन्त्रविद्यापारदृश्वा कश्यपनामा भिक्षुरासीत् । अवेक्षिष्ट च सोऽप्यदः शासनफलकम् । अथ विस्मयोत्फुल्ललोचने पश्यति तस्मिञ्जनसमाजे, स खलु निजमन्त्रप्रभावबलेनानायासेनैव स्तम्भशिखरादमुं करण्डकमाकृष्य चीवराञ्चलान्तरितं निधाय च पुरः प्रातिष्ठत । ततः सर्वेऽपि भिक्षवो विहारमासाद्य भगवते सुगताय तद्वृत्तमखिलं विज्ञाप्य कश्यपस्य मन्त्रसिद्धिप्रागल्भ्यं भृशमस्तोषुः ।
अथ प्रशान्तगम्भीराकृतिर्भगवान् कश्यपमन्तिकमाहूयेदमवादीत्— ‘‘वत्स कश्यप, अपि नाम त्वं मन्त्रविद्यातत्त्वं सम्यगवैषि ?’’ इति ।
‘‘ईषदवैम्यार्य ! अधीतचरं हि मया क्वचित्तन्मन्त्रशास्त्रम्…’’
‘‘किन्निमित्तं तर्हि चन्दनकरण्डकजिघृक्षया त्वयास्या विद्यायाः प्रयोगो व्यधायि ?’’
‘‘प्रभवति यः खल्वमुं चन्दनकरण्डकमादातुं स एवास्य भाजनमस्त्वित्यमुष्मिन् फलकेऽभिलिखितमासीत् । आलोकितं च मयात्मनि तादृशं सामर्थ्यम् । ततो मया मन्त्रप्रभावबलेनासाववाप्तः समुद्गकः’’ इति सप्रश्रयं कश्यपो व्यजिज्ञपत् ।
‘‘किं न्वसौ करण्डकस्त्वदीयोऽभूत् ?’’
‘‘नेति भगवन् ! शक्तिसम्पन्नस्यैवासौ भवेदिति खलु तत्राभिलिखितमवर्तत । मयि तु विद्यत एव तत्सामर्थ्यम्…’’
‘‘यत्खलु न त्वदायत्तं तदाप्तुकामेन त्वयाचरितोऽयमुद्यमस्तवाधःपातमेवावेदयति…’’ इत्यप्रसादमन्थरया गिरा भगवानभाषत ।
‘‘कथमिवैतदुपपद्यते ? लोकोत्तरं हि प्रभावकौशलं मया प्रादर्शि । अत एव च सब्रह्मचारिणः सर्वेऽपि मामभ्यनन्दन् । अनया च चेष्टया मम शक्त्यतिशय एव प्रादुर्बभूव । कथं नामैतद्विलसितं मामधोगतिं गमयेत् ?’’
‘‘भोस्तपस्विन्, निर्धूतवासनाजालो विगलितव्यामोहश्च प्रव्रजितः खलु त्वमसि । तथाप्यमुष्य शासनपट्टस्यालोकनमात्रादेव तव चेतस्युदियाय तृष्णाङ्कुरः, शिथिलीभूतं च ते सत्त्वबलम् । तत्प्रयुक्तश्च त्वममुं समुद्गकमादातुं प्रायतथाः । इत्थमेव चायत्यां कदाचिच्चित्तवैक्लव्यसमये त्वमिन्द्रियार्थभोगानप्याप्तुं प्रयतेथा एव ननु ? पुनः पुनरावर्तमानं चेदं चेतोदौर्बल्यमसकृत्त्वामाबाधेत । ततश्चासंशयं त्वमधःपातमवाप्स्यसीति…’’
व्रीडावनम्रशिराः कश्यपस्तूष्णीमस्थात् । पुनरपि च करुणावरुणालयो भगवानवादीत्— ‘‘भो भिक्षो, अद्यैवामुं करण्डकं सरित्प्रवाहे प्रास्य । उत्सृज च मन्त्रशक्तिव्यवहारम् । न च जातुचिदायुषि पुनरस्या निषेवणमास्थेयम्’’ इति ।