सद्यःफला खलु धीमतां वाग्वैदग्धी

दिगन्तप्रसृमरां दक्षिणापथाभिजनस्य तेनालीरामस्य कीर्तिं शुश्रुवान् दिल्लीश्वरो बाबरनामा महीपतिः कदाचिदमुं स्वास्थानमागन्तुं निमन्त्रयाञ्चकार । किं किल श्रुतानुरूपमेवास्य विपश्चितो मतिवैभवम्, आहोस्विदर्थवादमात्रमिदमिति तत्त्वतो जिज्ञासुरसौ भूपतिरमुष्य धिषणाकौशलं परीक्षितुं चकमे ।

अथ स्वभर्त्रा कृष्णदेवेन सञ्चोदितोऽसौ तेनालीरामोऽपि तदीयमास्थानमुपेयिवान् । तत्र च चित्रैर्नर्मकौतुकैः परिहासगर्भाभिः स्वकथाभिश्च स सभ्यान् हासयितुं बहुधा प्रायतत । विफलीबभूव तु तस्य स सर्वोऽप्युद्यमः । स्पष्ट एव च तत्र हेतुरवर्तत, यतो हि ‘मा स्म कश्चन सभासदामीषदपि हसीत्’ इति प्रागेवासौ बाबरनृपतिः कठोरमन्वशात् । इत्थं च निष्फलारम्भस्यामुष्य पञ्चदश दिनानि व्यतीयुः ।

अथैकदा प्रत्युषसि चङ्क्रम्यमाणः स भूपतिः स्वेदसलिलमुन्मार्जमुन्मार्जं राजमार्गोपकण्ठे गर्तं खनन्तमाभुग्नपृष्ठं जराजीर्णतनुं कमपि स्थविरमद्राक्षीत् । उपसृत्य चैनमप्राक्षीत् — “भोः स्थविर, किमिदं चेष्टसे ?” इति ।

प्रश्रयावनतस्तमवादीत्स जरन् — “देव, सहकारपोतकमत्र रोपयामि” इति ।

तच्छ्रुत्वा सविस्मयो भूपतिः पुनरमुमन्वयुङ्क्त — “अयि भोः, जराजरठितदेहो न खलु त्वमस्य भूरुहः फलानि स्वजीविते भोक्तासि । एवं सति किमनेन तव वृथायासेन ?” इति ।

अथ स वृद्धः प्रत्यभाषत — “महाराज, यत्खलु परार्थं विधीयते कर्म, तदेव परमार्थतः फलावहं सम्पद्यते । मम तातेन पूर्वं तदेवाकारि, सोऽहमप्यधुना तद्वर्त्मैवानुवर्ते । आगामिनि काले कश्चिदस्य पचेलिमानि फलान्यास्वादयिता, न पुनरहं तद्विषये मनागपि चिन्तयामि” इति ।

इदमाकर्ण्य प्रमुदितचेता बाबरः — “उपपन्नमिदमात्थ; अयि परोपकारनिष्ठ, गृहाणेमं हिरण्यग्रन्थिम्” इत्युदीर्यैकं सुवर्णस्यूतमस्मै प्रादात् ।

ततः स जरन् सप्रश्रयमवोचत् — “भुवनरक्षक, करुणापरायण, आरोपितात्पादपात्पञ्चषेभ्यो वत्सरेभ्य ऊर्ध्वमेव लोकाः फलानि लप्स्यन्ते । अहं तु पादपारोपणात्प्रागेव सद्यः फलमविदम् । अहो बत परहितचिन्तनस्य कीदृशोऽयमुदर्कः !” इति ।

तादृशैस्तस्य सूक्तिविलासैरावर्जितचेताः स क्षितिपतिर्द्वितीयमपि काञ्चनमुद्रापूर्णं स्यूतममुष्मै प्रायच्छत् । स च वृद्धो भूयोऽपि जगाद — “अहो, निरतिशय एवायमनुग्रहस्तव ! महीरुहः खलु प्रतिवत्सरं सकृदेव फलं प्रसूते; त्वं तु वृक्षारोपणदिवस एव द्विर्मां पुरस्कृत्यापूर्वं निदर्शनमाविश्चकर्थ” इति ।

तदिदं तस्य वाग्वैदग्ध्यमनुभूय भृशं परितुष्टोऽपि स भूपतिस्तृतीयमपि धनस्यूतं विश्राण्य, अत्रैव चिरं स्थास्यामि चेदयं जरन् वाग्जालैरेव मे कोशं रिक्तीकुर्यादिति मत्वा सपदि ततो यियासुरभूत् । तावदेव च स जरन् स्वकीयं छद्मवेषमपाचकर्ष । अथ पुरस्तादवस्थितं तेनालीराममवलोक्य विस्मयस्तमितो मेदिनीपतिरमुष्य लोकातिगं नैपुणं वाक्पाटवं चाङ्गीचकार ।