उदवहत्पुरा किल कश्चनाधिकरणाधिकृतः स्वाधिकारधुरम् । इतस्त्र्यहात्प्रागेव समूपागादमुं तावदीदृशो राजाज्ञासन्देशः — ‘अकालक्षेपमेव पत्तनान्तरमधिवस्तुं प्रस्थातव्यम्’ इति । निसर्गसौम्यधीरसावपि नातिव्यथितमना राजशासनमिदं प्रत्यपद्यत ।
प्रचुरतराण्येव हि किल परपुरप्रयाणवेलायामुपनमन्ति करणीयानि । गृहोपस्करजातस्य संवेष्टनबन्धनादिकमनन्यसहायेनैवामुना पाणौग्राहं समपादि । न खलु कश्चिदप्यधिकरणपरिजनस्तत्साहाय्यविधित्सयान्तिकमुपास्थित ।
संवत्सरत्रयात्प्रागयमुपागमदिदं पौरजानपदसङ्कुलं पत्तनम् । तदानीं तावदमुमभिनन्दितुकामा दशाधिका अनुजीविपुरुषाः प्रसूनमाल्यपाणयः प्रवहणसन्निवेशे समुपतस्थिरे । अद्य तु प्रस्थानवेलायां विलुप्त एवास्यानुपदं सहायजनसंपातः ।
आत्मनैवानेन कृत्स्नोऽप्यसौ परिच्छदभारः प्रवहणसन्निवेशमवाहि । प्रयाणापृच्छामात्रार्थमपि नाव्रजीत्तं देशमधिकरणात्कोऽपि भृत्यजनः । निर्वेदविषण्णचेताश्चान्तरेवेषदस्मयत स कार्याधिकृतः ।
प्रवहणप्रस्थानाय दशकलामात्रावशिष्टे काले कुसुमस्रक्पाणिः कश्चन परिचारकः सत्वरं श्रमश्वसन्प्रवहणमण्डपमाससाद । अधिकृतकण्ठदेशे च माल्यदाम समवसज्य भक्तिप्रह्वमौलिः स प्रणिपत्याभाषिष्ट — “मर्षणीयोऽस्मि महाभाग! अधिकरणनियोगमशेषं परिसमाप्योपक्रममाणस्य मे स्तोकः कालविलम्बः समजनि” इति ।
“क्व नाम व्याप्रियन्त इतरे सर्वेऽप्यधिकरणपुरुषाः?” इत्यप्राक्षीदमुमधिकृतः ।
“अमी खलूपयास्यतो नूतनाधिकृतस्याभिनन्दनसंविधानेष्वेवैकाग्रमनसो व्यासक्ता वर्तन्ते” इति ।
“कस्मात्तर्हि त्वमिहागमः? नाहमधुना युष्मदधिकरणाधिष्ठाता, न च मयि प्रभुत्वमर्थसम्पद्वा काचन विद्यते” इति ।
“किं नामेदमभिधीयते महाभाग! परमाधिकृतभावेन मम हृदयपद्मे नित्यसंनिहित एवासि त्वम् । आत्मीयया सौजन्यसम्पदास्मभ्यं किं किं नाम नाकार्षीः? तावकीनं वात्सल्यमुपकारभारश्च कथंकारं नु विस्मर्येयाताम्? कामं केचिद्विस्मृतवन्तः स्युः, स पुनरमीषामेवापराधः” इति ।
इदमुपशुश्रुवुषोऽमुष्याधिकृतस्य हृदयं तावदमुना परिचरेण प्रीतिपुरःसरमुपहृतया कुसुमस्रजा तदीयेन च वचनसौष्ठवेन युगपदेवामोदनिर्भरं सुरभीबभूव ।