सर्वतोऽग्रपूज्या ह्यनन्यगौरवा जननी

कदाचिदुल्लङ्घ्य कल्लोलमालाकुलमपरमर्णवं प्रतीचीं दिशमधिवसतां पाश्चात्त्यानां जनपदं परिव्राजकचूडामणिर्विवेकानन्दः प्रपेदे । तत्रस्थं चैनमकृत्रिमप्रेमार्द्रहृदयः कश्चित्सुहृदतिथिसपर्यायै स्वभवनमाजिगमयिषन्प्रश्रयपुरःसरमुपामन्त्रयत । प्रमोदप्रसन्नचेताश्चाभिनन्द्य तदुपमन्त्रणमसौ तस्य निकेतनमुपाजगाम । अमुष्य वेश्मनि जरसा श्लथीकृतगात्रा परिणतवया जनयित्री निवसतीति पूर्वमेवावगतमासीत्तस्य । अतश्चादित एव तामन्विष्यन्नभ्यन्तरमुपेयिवानसौ पलितधवलितकेशां तां स्थविरां प्रह्वमौलिरभिवाद्य बहिर्निर्गत्यानन्तरमेव सख्युर्गृहिणीमप्यवन्दिष्ट ।

तदिदमालोक्य विस्मयविस्फारितलोचनः स वयस्यस्तमाबभाषे — “अङ्ग! कुटुम्बिन्येवात्रास्मदीये जनपदे सर्वैः प्रथमतरमभिवाद्यते । तदनु खल्वन्तर्गृहे निवसन्तौ पितरावन्यांश्च परिजनानालोकयन्ति तैः समं संलपन्ति च लोकाः । एतद्विपरीतं तु तवेदमनुष्ठितम् ! अहो चित्रायते तवेयं रीतिः !” इति ।

तदुपश्रुत्य स्मितमधुरया गिरा तमेवं प्रत्यभाषिष्ट विवेकानन्दः — “वयस्य! जनन्येव खलु भुवनेऽस्मिन्सर्वतोऽभ्यर्हिततमा पूजार्हा च । अत एव मयाग्रेऽसौ प्रह्वेणाभिवादिता” इति ।

“अतिक्रान्तवयाः खलु जननी, किमपि च कर्म निर्वर्तयितुमनीश्वरा । ईदृश्यसौ कस्य हेतोः सर्वतोऽग्रेऽभ्यर्च्येत ?” इत्यनुपदमेनं प्रत्यपृच्छत्स सुहृत् ।

पुनरप्याह विवेकानन्दः — “भवतु नाम जरया जर्जरीभूता विगतशक्तिश्च, तथापि मातुरभ्यर्हणीयता तु न कदाचिदप्यपक्रामेत् । या हि गर्भभरणादिभिः क्लेशैरस्मान् जनयित्वाविरतपालनपरा पुपोष समवर्धयच्च, सा खल्वस्माभिः कृतज्ञतापुरःसरमेवावेक्षणीया” इति ।

“सम्प्रति त्वर्थोपार्जनादिष्वनीशासौ नितान्तमस्माकं कुटुम्बभारायत एव…”

“शिथिलितबन्धा खलु युष्मदीये जनपदे कौटुम्बिकी मर्यादा, यत इत्थं यूयं तर्कयथ । आ जन्मनः प्रत्युपकारानाकांक्षिण्या निरवधिकया प्रीत्या कृतलालनपालनायास्तस्या आनृण्यं तु वार्धके तत्परिपोषणादेव संपद्येत । 'उपाध्यायान्दशाचार्य आचार्याणां शतं पिता । सहस्रं तु पितॄन्माता गौरवेणातिरिच्यते ॥' इति हि स्मृतिवचनमुद्घोषयति । तदेवं निरुपम एवास्ति मातुर्महिमा । युष्मद्विषये तु भार्याया एव गरीयः पदमभ्युपगम्यते । अद्य तावदेकां स्वां परिणीतामभिप्रदर्शयंस्त्वमीहसे — मयेयं पुरतो बहुमन्तव्येति । यदा पुनरहं स्तोककालातिक्रमेणात्राभ्यागच्छेयम्, तदा त्वमन्यां कामपि प्रमदां पुरस्कृत्याचक्षीथाः — सेयमधुना मदीया गृहिणीति । जननी पुनरेकैव खलु जगति । कालत्रयेऽपि चासौ तव मातैवावतिष्ठते । तस्मादहमव्यभिचरितमातृभावां तव जननीमेव सर्वतोऽग्रेऽवन्दिषि सममीमनं च । एष एव नः सनातनो देशाचारः” इति तत्त्वत एतद्विवृण्वानोऽमुं प्राबोधयद्विवेकानन्दः ।