निखिलविधिशास्त्रं यदा साङ्गमध्यगीष्ट बालगङ्गाधरतिलकः, तदीयशास्त्राभ्यासश्चावसानमगात्, तदैवामुं तदुत्तरजिज्ञासुः कश्चनास्य निसर्गसुहृत्सप्रणयमप्राक्षीत् — “कस्मिन् नाम प्रदेशे, वयस्य तिलक, प्राड्विवाकसदसि वादिपक्षसमर्थनवृत्तिमितः परमवलम्बितासे ?” इति ।
तद्भाषितं निशम्य सप्रत्ययं बभाषे तिलकः — “न जातु तां जीविकां सेविताहे । अलीकमेवास्यां प्रत्यहं पदे पदे व्याहर्तव्यमापतेत् । वितथपक्ष एव च तत्र समर्थनीयतामियात् । न मनागपीदं सर्वं मे स्वदते” इति ।
सकौतुकं पुनरनुयुयुजे सखा — “राजकीयं किं नामाधिकारनियोगमेवं तर्हि चिकीर्षसि ?” इति ।
स्मेरमुखः प्रत्यवोचत्तिलकः — “शान्तं पापम् ! न जातु तदपि विधातास्मि । जुगुप्स्यते हि मया नितान्तं राजसेवापारतन्त्र्यम्” इति ।
विस्मयाकुलो भूयो व्यजहार स वयस्यः — “किं नाम तर्हि त्वया सप्रति विधीयते ?” इति ।
“अमुमेव तावदर्थमन्तर्मनसा पर्यालोचयामि । अचिरादेव च वेदितासि किमस्मिन्नहमाचरेयम्” इति धीरगम्भीरं प्रत्यभाषत बालगङ्गाधरतिलकः ।
नातिचिरादेव च ततः कस्याञ्चिद्विद्याशालायां तिलक उपाध्यायजीविकामारेभे, मासिकवेतनं चास्य रूपकत्रयमात्रमिति बुबुधे स मित्रवरः ।
निशम्यैतत्परां विस्मयदशामनुभवन् सत्वरममुमुपसृत्य पप्रच्छ स सुहृत् — “अये सखे, किमिदमकार्षीः ? कथं नाम निखिलं विधिशास्त्रमधीत्यापीमां सामान्यां शिक्षकपदवीमाशिश्रियः ? तत्रापि तु मासिकभृती रूपकत्रयमात्रम् ! अनयाल्पिष्ठया भृत्या कथं ते प्राणयात्रा निर्वहेत् ? अन्त्येष्टिक्रियामपि ते निर्वर्तयितुं गेहे न काश्चन कपर्दिका अपि विद्येरन्” इति ।
सप्रशममथ तं जगाद तिलकः — “परमपावनी खल्वसौ वृत्तिः, यामहमवालम्बिषि । अपूर्वा चात्मनिर्वृतिः, या ह्यतः समुपलभ्येत । जीवननिर्वहणाय न मनागप्युद्विजेऽहम् । काञ्चिद्व्यवस्थां तदर्थं स खलु सर्वेश्वर एव विदध्यात्, यो मां ससर्ज । नैवास्त्यन्त्येष्टिकर्मविषयेऽपि मे कश्चिदाधिः । न चेद्गेहे कापि व्यवस्था विद्येत, तर्हि पौरपरिषदेवावश्यं तां निर्वर्तयिता” इति ।
महोदारं निरुद्वेगं चैतं तिलकव्यवहारमाकलय्य परां चमत्कृतिं ययौ स सखा ।