अस्ति दक्षिणापथे तुङ्गगिरिश्रेणिमेखले बळ्ळारिनामधेयः कश्चन परिमितसीमोऽपि महौजा जनपदः । उच्चावचानि राष्ट्रमण्डलानि बाहुवीर्येण विजिग्यान उद्दामप्रतापः शिवराजममुमपि बळ्ळारिविषयं प्रबलबलौघेनाभ्याचक्राम । नातिप्रभूता खल्वमुष्य मण्डलस्य सैन्यसम्पदवर्तत; तथापि जाज्वल्यमानचेतसः स्वाभिमानधनास्तन्निवासिनः परकीयदास्यकलङ्कं तृणायापि न मेनिरे, न च परवशतामभ्युपेयुः । ततश्चापरिहार्ये प्रवृत्ते तुमुलसङ्ग्रामे, स्तोकेनैव परिश्रमेण शिवराजजिष्णुरनीकिनी तमिमं देशमात्मसाच्चकार ।
अधिगतविजयश्रीरसौ शिवराजः प्रशान्ते रणरेणुप्रसरे स्वसैनिकानिदमादिदेश—“पराजितस्यामुष्य जनपदस्य शासिता सपदि मत्सन्निधावुपस्थाप्यताम्” इति ।
प्रतस्थिरे तदाज्ञां शिरसा निधाय राजपुरुषास्तत्कार्यनिर्वर्तनाय । अशात्तदानीं तमिमं बळ्ळारिविषयं मूर्तिमतीव मानोन्नतिर्मालादेवी नाम राज्ञी । सादरमेनां राजभटाः पुरस्कृत्य शिवराजस्य समक्षमुपस्थापयामासुः ।
अवेक्ष्यैव पुरः स्थितां तां राजलक्ष्मीमिव राज्ञीमबुद्ध वस्तुतत्त्वं चतुरमतिः शिवराजः । सपदि च तस्या उपवेशनायार्हं विष्टरमुपकल्पयन् प्रश्रयावनम्रः सविनयमिदमब्रवीत्—“आर्ये, क्रियतामनुग्रहः, अलङ्क्रियतां चेदमासनम्” इति ।
ततः कोपस्फुरिताधरा सा मनस्विनी मालादेवी सगर्वमवोचत्—“अलममुना सोल्लुण्ठनोपहासेन ! अपरतन्त्रमेवासीत्पुरास्माकं राष्ट्रमिदम् । परं तु स्तोकबलत्वाद्धेतोरद्य समरे पराभवोऽस्माभिरवापि । तथापि न जातु परवशजीवितं जिजीविषाम्यहम् । शूरो हि शूरं समाद्रियेतेति खलु नीतिविदां समयः । तन्मा भून्मदीयस्य शौर्यस्य परिभवः । आदिश्यतां मे वधदण्डः, मयि तु मा स्म दास्यपाशो निपाति” इति ।
तामिमां सिंहीगर्जितोपमां गिरमुपश्रुत्य ससंभ्रमं भद्रासनादुदस्थाच्छिवराजः ; प्राञ्जलिश्चैनां प्रश्रयगम्भीरया वाचा बभाषे—“आर्ये ! स्वतन्त्रमेवासीदिदं बळ्ळारिमण्डलम्, इतः परमपि स्वतन्त्रमेव भविता । यथैव मे जननी जीजाम्बा, तथैवात्रभवत्यपि मम साक्षान्मातैव । मातुः स्वभूतं रिक्थं को नाम तनयो जिघृक्षेत् ? मयि प्राणान् दधाने नैतज्जातु घटेत । सगौरवं मयास्य बळ्ळारिविषयस्य स्वातन्त्र्यं पुरस्क्रियते । अजानता च मया यदत्राभियानमकारि, तस्यैतस्यापराधस्य मर्षणायाञ्जलिं बध्नामि” इत्युदीर्य समुपसृत्य प्रह्वस्तच्चरणसरोजे स्पृशंस्तां मालादेवीं परमया भक्त्या ववन्दे ।
अदृष्टपूर्वममुष्य शिवराजस्यौदार्यं विनयमाधुर्यं च समवलोक्य सान्द्रवात्सल्यनिर्भरमजायत मालादेव्याः स्वान्तम् । प्रास्यन्दन्त च तस्या नयनयुगलादनवरतमानन्दबाष्पबिन्दवः ।
“वत्स शिवराज ! बहुशस्तवाप्रतिमस्य विक्रमस्यौदार्यस्य च कथाः कर्णपरम्परया मया श्रुतचर्य आसन् । अद्य तु साक्षादेतदुभयमपि मयादर्शि । भूयात्सर्वासु दिक्षु356 प्रसृता तवोज्ज्वला शौर्यकीर्तिः । तव साहाय्याय चेदं बळ्ळारिराज्यं शश्वत्सन्नद्धं स्थास्यति” इत्यभिधाय “जयतु शिवमहाराजः” इत्युच्चैरुदघोषयत् ।
ततः प्रतिनदन्निव शिवराजोऽपि—“जयतु राज्ञी मालादेवी ! जयताच्चेदं बळ्ळारिमण्डलम् !” इति सगौरवमुदघोषयत् । हर्षप्रकर्षनिर्भराश्च सभ्याः सर्व उभयोरप्यनयोस्तारस्वरेण जयशब्दमकार्षुः ।