46 
 48

समयस्यैव प्राबल्यम्

आसीत् कश्चिन्मनीषी विविधविद्यापारीणः, यस्य पुरोपान्ते विशालमाश्रमपदं बभौ। यस्य चाश्रमपदस्य नातिदूरे गहनं काननं भेषजतरुलतासङ्कुलं व्यराजत। स च परोपकारैकव्रतो मुनिः भैषज्यसञ्चिचायिषया मुहुर्मुहुररण्यं चचार।

अथैकदा स भगवानन्तेवासिभिः समं वनं प्रविवेश। तत्रास्य कश्चिद्विनीतः शिष्यो वल्मीकान्तिके शकुन्तैः सम्पाद्यमानं कृमिभक्षणं ददर्श। ततो दुःखायमानमनाः स गुरुमुवाच- 'आर्य! अयमेवंविधः कृमिसंहारः किं नैनसे कल्पते?' इति।

तच्छ्रुत्वा स महामतिः स्मितं कृत्वा प्रत्युवाच- 'सौम्य! अन्नं हि ब्रह्मणेति श्रूयते। सर्वमप्याशनं जगदीशप्रसाद एव। विधाता हि नानायोनिषु जीवानां कृते नानारूपा वृत्तीरकल्पयत्। अतस्तस्यादाने नैनसः स्पर्शोऽपि सम्भवेत्' इति।

भूयोऽन्यस्मिन्नहनि तैः शिष्यैर्विपिने पतत्रिणः कुणपो ददृशे, यश्च बहुभिः कृमिभिः स्वेच्छयाद्यमानोऽभूत्। विस्मयाविष्टचेताः कश्चिच्छिष्यः पुनरप्राक्षीत्- 'उपाध्याय! प्राग् वयं विहङ्गैः क्रियमाणं कृम्यादनमद्राक्ष्म, सम्प्रति तु कृमिभिरेव सम्पाद्यमानं पतत्त्रिभक्षणं निरीक्षामहे। तदेतयोः पतत्त्रिकृम्योः कतरो बलीयान्?' इति।

तदा स आचार्यः स्मयमानो जगाद- 'भद्र! स्थाने ते संशयः समुत्पन्नः। न खलु पतत्त्रिषु वा कृमिषु वा कश्चिद् बलीयान् विद्यते। समय एव हि सर्वस्माद् बलवत्तरः। यस्य यर्हि समुच्छ्रयसमयः, तर्हि तस्य शौर्यं वीर्यं च वर्धते। अवसानवेलायां तु सर्व एव हृतौजसो जायन्ते। सर्वमेतत् समयस्यैव विजृम्भितम्। पुरस्ताद् विहङ्गानामुदयकाल आसीत्, अधुना तु कृमीणामभ्युदयो वर्तते। उच्छ्रायापचयौ हि कालमूलावेव। व्यतीतः समयो न जातु पुनरावर्तते। अतो यावज्जीवं समयस्य सदुपयोगो विधेयः। नैव कदाचन वृथा यापनीयः कालः' इति।

46 
 48