अथ रघूत्तमस्य काननवासे प्रथमेऽहनि व्यतीते यामिन्यां सीतया साकं रघुपतौ सुषुपुषि सौमित्रिस्तन्द्रां विहाय तद्रक्षायै बद्धपरिकरोऽतिष्ठत् । ज्येष्ठभ्रातरि तस्यैतादृशीं निस्समां भक्तिमालोक्य प्रसन्ना निद्राधिदेवताविर्भूय बभाषे – “वत्स ! तवानया भ्रातृशुश्रूषया नितरां प्रीतास्मि । अभिलषितं वरं वृणीष्व” इति ।
ततः स विनयावनतः प्राब्रवीत् – “अरण्यवासस्यास्मिन् सुदीर्घे काले सीताराघवरक्षणं विधातुमुत्सहे । परं द्वित्रदिनेभ्यः परम् निद्रा मां पीडयेत् । अतः समग्रेऽस्मिन् प्रवासावधौ यथा लेशतोऽपि निद्रा मां न स्पृशेत् तथा वरं दिशतु भवती” इति । तदाकर्ण्य देवी जगाद – “काममीदृशं वरं वितरितुं पारयामि, किन्तु कोऽपि समयो वर्तते । वरप्रभावान्निद्रां विनापि त्वं स्थातुं शक्नुयाः, परं निसर्गनियमोऽयं यत् – त्वया यावती निद्रा त्यज्यते तावतीमन्यः कश्चिन्निषेवेत । तादृशः कोऽपि न यदि लभ्येत तर्हि वरोऽयं न सिध्येत्” इति ।
तदा लक्ष्मणः प्रत्युवाच – “मम सहधर्मचारिणी ऊर्मिला मया परित्यक्तां निद्रां स्वीकर्तुमर्हति । अनुगृह्य भवती तामुपेत्य पृच्छतु । मया त्वनवरतमत्र रक्षणकर्मण्यवहातव्यमित्यतोऽहमितः पदमपि चलितुं न शक्नोमि” इति ।
अथ सा देवी ऊर्मिलां प्रति प्रतस्थे । वृत्तं सर्वमपि तस्यै निवेदयामास । जानक्या अनुजा खलु सा ! तस्या अपि भर्तरि यादृशी भक्तिरासीत् सा सीतयैवोपमातुं शक्या । अतः सा देव्याः प्रस्तावं सप्रमोदं जगृहे ।
“प्राणेश्वरस्य निद्रां काममहं सेविष्ये । मम जीवितेशः लक्ष्मण आर्ययोः परिचर्यां निर्विघ्नं विदधातु” इति सा बभाषे । “तथास्तु” इति निगद्य देव्यन्तरधत्त ।
तदारभ्य चतुर्दशवत्सराणि यावदूर्मिलाविरतं सुष्वाप । लक्ष्मणस्तु निशासु जाज्वल्यमानः सीताराघवौ ररक्ष । गुडाकाया निद्राया ईशः प्रभुत्वेन गुडाकेश इति स प्रथितो बभूव ॥