कृषीवलयुवा कश्चित् कमपि देशिकमुपेत्य पप्रच्छ - “भगवन् ! अस्मद्गेहे बान्धवा ममोद्वाहं विचारयन्ति । व्यलोकयमहं कन्यका बह्वीः, परं न कापि तासां मे मनस्तुष्टिमजीजनत् । अधुना किं नु विदध्याम्?” इति ।
तमाकर्ण्य गुरुर्जगाद – “एतस्योत्तरं पश्चाद् व्याहरिष्यामि । प्रथमं तावत् त्वं बृहत्प्रमाणं प्रकृष्टमेकं चूताफलमन्विष्य आनय । अयं चात्र समयः - यद् गवेषणकर्मणि पूर्वं यातम् अध्वानं न प्रतिनिवर्तिष्यसि” इति ।
एवं गुरुसमये प्रतिश्रुते स युवा आश्रमात् निरगात् । अथैकस्मिन्नुपवने तेन बहूनि चूताफलानि ददृशिरे, अतिप्रकृष्टानि च तान्यासन् । ‘इतोऽप्यग्रे श्रेयस्तरं फलं लप्स्ये’ इत्याशाबन्धेन स पुरस्तात् प्रातिष्ठत । सर्वत्र पर्यटन्नपि स प्रथमं यादृशं प्रवरं फलमैक्षत, तादृशं पुनर्न लेभे । अन्ते च विषण्णहृदयः प्रत्यागात् ।
तदीयमनुभवं निशम्य देशिकोऽवोचत् - “पुरस्ताच्छ्रेयः प्राप्स्यामीति बुद्ध्या फलं मृगयता त्वयान्ते विषाद एवाधिगतः । मैवं भूत् ते कन्यकागवेषणप्रसङ्गे ।”
“तर्हि किम् पितरौ मे यां निर्दिशतः, तामेवाविमृश्योपयच्छै?” इति स युवा पुनरप्राक्षीत् ।
“गच्छ, प्रकृष्टं यवस्तबकमेकमानय तावत् । ततः परं ते प्रश्नस्योत्तरं प्रतिवक्ष्यामि” इति गुरुः प्रत्युवाच ।
ततो निरयातो युवा अचिरादेव यवस्तबकमेकमुपादाय प्रत्यगात् ।
“किमर्थमिदमेव त्वयोपाहृतम्?” इति गुरुस्तमनुयुयोज ।
“मा भूत् पौर्विकी मूढता पुनरनुष्ठिता” इति मत्वा, प्रथमं यत् प्रकृष्टतममदृश्यत मया, तदेवेदमुपाहृतम् ।”
“सुष्ठ्वनुष्ठितं त्वया । रिक्तेन पाणिना प्रत्यागमनाद् हि श्रेय एतत्” इत्याचार्योऽभिननन्द ।
“आर्यवर्य ! मार्गयोरनयोर्विशेषो मयाधिगतः । परिणयानन्तरं गार्हस्थ्यं सुखमयं स्यादिति मेऽभिलाषः । तत्सिद्धये केनोपायेन मया यत्यम्?”
“अन्योन्यावबोधेन स्नेहप्रदानेन च गार्हस्थ्यं हि सुखायते । अन्वेषणमन्यथा, परितोषेण वृत्तिश्चान्यथा । गुरुजनाः कुलशीलचारित्र्यगुणादीनि समीक्ष्य यां कन्यकां वृण्वीरन्, त्वं तामेवोपयम्य, तस्यां प्रणयमाधाय, अन्योन्यं विज्ञाय सुखं जीव । ततस्ते श्रेयः संभविष्यति” इत्येनं गुरुः प्रबोधयामास ।