75 
 77

संस्कृतिद्वयविमर्शः

कश्चन भारतवर्षीयो यतिप्रकाण्डः कदाचित्विदेशं प्रतस्थे। स हि काषायं सोष्णीषं कञ्चुकं च परिधाय सर्वत्र पर्यटति स्म। न ह्यन्यत्किञ्चिदपि वसनं रिक्थं वा तस्यान्तिकेऽभूत्। अत एव निखिलसभासु समारोहेषु च तदेवैकमद्वितीयं वासोऽधत्त। परं सर्वत्रातीवोत्साहेन भागमग्रहीत्।

यद्यपि तदीयं परिधानमतीव साधारणमासीत्, तथापि तद्देशीयः परिवेशो न कमपि दुर्विकारं तस्य वपुषि जनयामास। यतस्तस्य चेतःसत्त्वमारोग्यं च तावत्प्रबलमास्ताम्।

अथैकस्मिन्नवसरे स यतिः कमपि समारोहं समाप्य निजावासं प्रत्यवर्तत। निवर्तमानं तं कश्चित् पाश्चात्यः कुतूहलाविष्टः पर्यपृच्छत् — “भद्र, किमिदमेकं सामान्यं वसनमन्तरा नान्यत्किमपि विद्यते तव सन्निधौ? सदैवैनमेकं परिधाय सर्वत्र संचरसि। किं नानुभवसि ह्रियम्?”

“ह्रीः कुतो नु मयानुभूयेत? यदेव मे स्वं विद्यते, तदेव हि धारयामि।”

“अहो, कीदृशीयं दारिद्र्यदूषिता संस्कृतिर्भवदीया! प्रत्यहं हि नवनवमंशुकमुत्तरवासश्च परिधानीयम्, त्वं तु नैतदाचरस्येव।” इति सोऽवदत्।

तदा स यतिर्युवा मन्दस्मितपुरःसरं प्रत्युवाच - “भद्र, त्वदीयास्मदीययोः संस्कृत्योर्महदन्तरं विद्यते। तव संस्कृतिं तद्देशीयास्तुन्नवायाः कल्पयेयुः, अस्माकं तु सनातनीं संस्कृतिं शीलमेव निर्माति। राष्ट्रस्य कस्यापि सांस्कृतिक उत्कर्षस्तद्वासिनां शीलबलेनैव मीयते, न पुनः सौचिकचातुर्येण।” इति।

एतदाकर्ण्य स पाश्चात्यस्तूष्णीम्बभूव।

अयं च यतिर्युवा नान्यः कश्चिदपि, अपि तु स एवासीत् स्वामी विवेकानन्दः।

75 
 77