92 
 94

श्रेयस्करो जीवनपन्थाः

आसीत् कस्मिंश्चिद्वनान्तरे रमणीयमाश्रमपदम्। अमुमेव प्रशान्तं मुनिनिकेतमवाप्तुं कोऽपि कीनाशः प्ररूढभक्तिरन्वहं जगाम । गुरुगिराममृतं स नितान्तं समाहितमनाः पपौ । अनधीतश्रुतिरासीदसाविति सत्यमकामेनाप्यभ्युपगन्तव्यम्, तथाप्यमुष्य वृत्तमुदात्तचरितैरप्यासित् स्पृहणीयम् ।

कदाचिदसौ निजगुरुमुपसृत्य पप्रच्छ - “किञ्चिद्विज्ञापयितुमुत्सहे । मदीयं बालिश्यमाकर्ण्य मा स्म मामुपहासीः” इति ।

“पृच्छ्यतां कामम्” इत्युवाच देशिकः ।

“आविर्भवेद्यदि मे पुरस्तात् साक्षात् परमेश्वरः, तदा किमहं तं याचेय ?” इत्यनुयुयोज हालिकः ।

“श्रमसाध्यैव मे वृत्तिर्भूयादिति स याच्यताम्” इति प्रतिजगाद गुरुः ।

“यदि पुनरपि किञ्चिद्वरणीयमापतेत् ?” इत्यसावन्वयुङ्क्त ।

“तर्ह्यनवद्यः शीलप्रकर्षो याच्यताम् ।”

“अथ तृतीयमपि किञ्चिद्याचितव्यं भवेच्चेत्…?”

“मनोवाक्कायकर्मसु दाक्षिण्यमभ्यर्थ्यताम् ।”

“अथ तुरीयं याचनीयं यदि जायेत…?”

“आस्तिक्यमपत्रपा च प्रार्थ्येताम् ।”

“पञ्चममपि यदि वरणीयं स्यात्…?”

“नैश्रेयसं वित्तं मार्ग्यताम् ।”

“अतः परमपि यदि किञ्चित्काङ्क्षणीयं संवर्तेत…?”

“सन्ति यस्यान्तिके समस्तान्येतानि, नास्ति तेन लब्धव्यं याचितव्यं वावशिष्टं किञ्चिदपि । श्रमशीलता, शीलप्रकर्षः, दाक्षिण्यम्, आस्तिक्यम्, अपत्रपा, नैश्रेयसं वित्तञ्चेति सद्गुणा यस्य जीवितमलङ्कुर्वन्ति, तस्य खलु जीवनं परमं प्रकर्षमश्नुते । अत एवामुष्य जीवनपन्थाः परमोन्नतकरः सम्पद्यते । तस्मादेव हेतोर्नान्यत् किमपि प्राप्तव्यमवशिष्यते तेन” इति तत्त्वमुपदिदेश देशिकः ।

“आर्य ! भवदुपदिष्टं मार्गमनुसरन्निमं गुणग्रामं स्वायत्तीकर्तुं प्रयतिष्ये । प्राकृतोऽप्यहमेभिर्गुणैरुन्नतिमधिगन्तुं नूनमर्हेयम्” इत्यभिदधान एव स कृषीवलो गुरुचरणौ ववन्दे ।

92 
 94