93 
 95

पारमार्थिकमीश्वरदर्शनम्

अपरोक्षानुभूतिलिप्सुरध्येष्टा निखिलशास्त्राणां कश्चिद्विपश्चिदासीत्। तदीयां निरवद्यां पाण्डितीं परितस्तुष्टुवुर्लोकाः। अमुष्य चेतसि परब्रह्मसन्दर्शनाय बभूव बलीयसी लालसा। तदर्थमाचेष्टत च स भृशम्, तथापि जगदीश्वरसाक्षात्कारं नाससाद।

'हा धिग्जीवनमीशदर्शनविहीनम्' इति भृशं निर्विद्यमानः, प्राणानुत्सिसृक्षुरसौ कस्याञ्चिच्छ्रवन्त्यां पपात। तस्मिन्नेवावसरे तेन पथा सञ्चरन् कश्चित् परिव्राजकोऽमुमभ्यवपद्य निजगाद - “रे मौढ्योपहत, किन्नावेत्सि महापातकमिदं यदात्मघातमव्यवस्यः? कुतो वा प्राणत्यागे ते मतिर्निषण्णा? कीदृगसह्यं व्यसनं त्वामपीडयत्?” इति।

प्रत्यवदच्च सः - “न हि किञ्चिदैहिकं व्यसनं मामुद्वेजयति, परमपार्थकेनानेन जीवनेन जुगुप्समानोऽहं प्राणान् प्रजिहासामि” इति।

“कुतस्तर्हीयं निर्वेदमुद्रा?” इति सविस्मयं पप्रच्छ स यतिः।

अथ स्ववृत्तान्तमावेदयन्नसौ विपश्चिद् भगवद्दर्शननिमित्तां स्वां नैराश्यव्यथामाचख्यौ।

तदाकर्ण्य परिव्राजकोऽपृच्छत् - “कीदृशं तावद्भगवद्दर्शनं मन्यसे त्वम्?” इति।

“साक्षात् स्वप्ने वा यत्परमेश्वरस्य प्राकट्यं, तदेव खलु दर्शनम्” इति जगाद स विप्रः।

अथ तमुपदिदेश स मुनिः - “अहो ते जाड्यम्, यदनेकशास्त्राण्यधीत्यापीदृगज्ञ एव तिष्ठसि! अहङ्कारग्रन्थिरतिसूक्ष्मः 'बहुश्रुतोऽहम्' इत्यभिमानात्मा तेऽन्तःकरणे निगूढो वर्तते। प्रथमं तावदमुमुन्मूलय। सर्वभूतान्तरात्मा खलु परमात्मा। तस्माद्दीनानामनाथानां च परिचर्यया तेष्वेव जगदीश्वरं पश्य। परहितैकरतो भव। अहिंसाकारुण्यादिगुणगणान्न कदापि जहीहि। स्रोतस्सु, महीरुहेषु, गुल्मेषु चापि तमेव पश्य। एतादृशेन समदर्शनेनैव सर्वत्रेश्वरं साक्षात्कर्तुं शक्ष्यसि। तदेव हि परमार्थतो भगवद्दर्शनम्” इति।

93 
 95