2

आर्यतायाः परिज्ञानम्

मुम्बानगर्याः कस्याञ्चिद् रथ्यायामेका जरत्यतिष्ठत्, या च तत्र सञ्चरतो जनान् सानुनयमित्थं ययाचे — “अहो महाभागाः! प्रसीदत, यदेनं दारुभारं मम मूर्ध्न्यधिरोपयितुमुपकुरुत” इति।

किन्तु न कश्चिदपि तस्याः साहाय्यमाततान। केचन तस्या वाचमाकर्ण्यापि बधिरीभूय प्रययुः। अपरे तामनादरेण निरीक्ष्य प्रतस्थिरे। अन्ये तु तां धिक्कृत्य पुरस्ताच्चक्रमुः।

अथ दिनाधीशेऽस्तमुपगते, सा वृद्धा मनसीत्थमचिन्तयत् — “अहो, कदा नु खलु निजमन्दिरमासादयेयम्? कदा च मे डिम्भेभ्यः सुतेभ्योऽन्नं संस्कृत्य परिवेषयेयम्?” इति। किन्तु सुचिरं व्यतीतेऽपि काले न कश्चिदुपकर्ता तस्याः सकाशमाजगाम।

अस्मिन्नन्तरे कश्चिन्नव्यपरिच्छदः सत्पुरुषस्तेनाध्वना व्रजन् ददृशे। तस्य परिधानविभूषणानि विलोक्यैव सा जरती मनसि निश्चिकाय — “नायमुपसर्पणयोग्यः। यद्येनं याचेय, निष्फलो मे प्रयासः स्यात्” इति। इत्थं विमृश्य तयाह्वानायोत्क्षिप्तोऽपि पाणिः पुनरवापतत्, ओष्ठपुटान्तरगताश्च वाचस्तत्रैवान्तर्दधुः।

अथ स महाभागस्तां ददर्श। तस्याश्च कारुण्यपूर्णे दृशावेव तस्या मानसमाविश्चक्रतुः, यदेषा किञ्चिदुपकारमीहते इति। ततश्च स तस्याः समीपमुपसृत्य सान्त्वयता स्वरेणैवमपृच्छत् — “अम्ब! किं नु किञ्चिद् विवक्षसि? आहोस्विद् याचसे किमपि?”

तस्यैतद् वचनमाकर्णयन्त्या एव वृद्धाया नयनाभ्यां बाष्पधारा निरगलत्। स तु महाशयस्तां पुनरपृच्छत् — “अम्ब! किमिति प्ररोदिषि? कच्चित् ते धनमपेक्षितम्?” इति व्याहरन्नेव निजस्यूताद् वित्तमुद्धर्तुं हस्तं प्रासारयत्। तदा सा जरती तमवोचत् — “आर्य! न मे धनैः कृत्यमस्ति। इमं काष्ठभारमुद्वोढुं मयात्र व्रजन्तः सर्वेऽपि जना याचिताः, परं न कोऽपि मामुपचकार। त्वं पुनरयाचित एव मामुपेत्य ‘अम्ब’ इत्यामन्त्रितवानसि। तच्छ्रुत्वैव मे हृदयमद्रावीत्, नयनाभ्याञ्च बाष्पोऽमुच्यत।”

अथ स महाभाग ईषद् विहस्य तं काष्ठभारमुद्धृत्य जरत्याः शिरसि समादधौ। सा च वृद्धा बाष्पावरुद्धया गिरा सकृतज्ञमित्युवाच — “वत्स! शिवस्ते पन्था भूयात्। साक्षान्महापुरुषोऽसि त्वम्” इत्युदीर्य तस्माद् देशात् प्रतस्थे। स च 'महापुरुषः' वस्तुतस्तु मुम्बानगर्या उच्चतमन्यायाधिकरणस्य धर्माध्यक्षः, प्रथितनामा महादेवगोविन्दरानडेमहाशय एवासीत्।

 
 2