You are here: Home » stories » 2
1 
 3

सृष्टिदोषविमर्शः

आसीत् कश्चन नास्तिक्यप्रवणचेता उपाध्यायः। स कदाचन स्वान्तेवासिनः समुपदिशन् व्याहर्तुं प्रचक्रमे - “ननु परमेश्वरोऽसौ सर्वथा पक्षपाती। सृष्टिविधानं तस्य न मनागपि श्लाघनीयम्। यतोऽसौ साधूनिव दुर्जनानपि विदधाति। यदि नाम स निरपेक्षोऽभविष्यत्, तर्हि खलानां सर्जनं न्यवारयिष्यदेव।…”

तदाकर्ण्य शिष्यगणान्तरवर्ती कश्चन बटुः सहसोत्थाय तमवोचत् – “आर्य ! नैव खलु जगदीश्वरो दुर्जनान् ससर्ज।…”

“कथमेवं भाषसे वत्स? ये हि लोकेऽस्मिन्नगण्यशः खलाः सन्दृश्यन्ते, तेषां स्रष्टा कः पुनर्भवेत्? विधात्रैव ननु?” इत्याचार्यस्तं पर्यपृच्छत्।

“सत्यमेतत् यत्ते परमात्मनैव निर्मिताः। किन्तु नैव ते दौष्ट्ययुक्ताः सन्तो विनिर्मिताः…”

“अपूर्वः खल्वयं ते पक्षः। ‘दौष्ट्येन न निर्मिताः’ इत्यनेन किं विवक्षसि? यदा तेषामीश्वर एव स्रष्टा, तर्हि तत्संश्रितं दौर्गुण्यमपि तन्निमित्तकमेव स्यात् खलु?”

“आर्य! तमसो नाम कश्चित् पदार्थो लोके विद्यत इत्यत्र किं भवान् प्रत्येति?”

“नहि नहि। यतोऽहमपि तर्कविद्यां सम्यगध्यगीषि। प्रकाशस्याभाव एव हि तम इति व्यपदिश्यते। अतो नास्ति तम आख्यः कश्चन स्वतन्त्रो भावपदार्थः।”

“शैत्यं नाम वस्तु प्रति भवतः का मतिः?”

“शैत्यमपि तथैव, न भावपदार्थः। यत्राग्नितेजसो विरहोऽनुभूयेत, तत्रैव तत् प्रतीयते। तस्मादौष्ण्यस्यात्यन्ताभाव एव शैत्यमिति गीयते, न तु तत् पृथग्द्रव्यम्।”

“यथैव तर्हि लोके न तमसे न वा शैत्याय वस्तुत्वमिष्यते, तथैव भगवत्सृष्टौ खलानामपि वस्तुतो नास्ति सम्भवः।”

“ये तर्हि चक्षुर्गोचरा दुर्जनाः, किमन्येन केनापि ते विहिताः?” इति संरम्भगर्भं पप्रच्छ स उपाध्यायः।

“वस्तुतस्तु सर्वेऽपि मानवाः साधव एव जायन्ते। प्रेम्णः, कारुण्यस्य, सत्संस्कारस्य, सदुद्बोधस्य च वैकल्यादेव केचन दौष्ट्यमाश्रयन्ते। यदि ते प्रेमादिभिः संस्कृयेरन्, तर्हि पुनरपि साधुतामभ्युपेयुः। अतस्तेषु यद् दौर्जन्यनिदानं, तदेवादावपनेयम्। एवं सति लोके दौष्ट्यस्य वार्तापि नावशिष्येत। विधात्रा तु केवलं साधव एवोद्भाव्यन्ते।”

इत्येवं प्रब्रुवति तस्मिन् किशोरे, तदीयं प्रत्ययप्रदीप्तं वदनमनिमेषं ददर्श स गुरुः। न च तस्य मुखात् काचिदपि प्रत्युक्तिर्निःससार।

स एव बटुः कालान्तरेण ‘स्वामी विवेकानन्द’ इति नाम्ना जगति विश्रुतो बभूव।

1 
 3
Search
stories/2.txt · Last modified: 2025/11/19 13:32