आश्रमपदे कस्मिंश्चिदध्यूवास महामहिमा देशिकः। विद्यामुपासाञ्चक्रिरे तदुपकण्ठे नानादिगन्तरेभ्य आययिवांसः पञ्चान्तेवासिनः। नेत्रविकलः सन्नप्येकोऽमीषु गाढानुबन्धेन श्रुतिमधिजगाम।
‘किं नु खल्विमाँल्लोकानतिशेते बलेन, यूयं विजानीथ’ इति कदाचित्स्वान्तेवासिनः पप्रच्छासौ। विममृशुः क्षणं सर्व एव।
‘शस्त्रमेवोर्जस्वलम्’ इति जगाद प्रथमः। ‘कालायसमेव, यद्धि दारुताम्रादिकं भिनत्ति’ इति तद्वचः प्रत्याचख्यौ द्वितीयः। ‘कृशानुरेव गरीयान्, यस्तु कर्कशमपि लोहं विलापयति’ इति विनिहत्य तद्वादमाचख्यौ तृतीयः। ‘अपामेव सार्वभौमत्वं, या हि पावकं प्रशमयन्ति’ इति प्रत्यभाषिष्ट तुरीयः।
एवमन्योन्यं विवदमानेषु सर्वेषु तूष्णीम्बभूवाचार्यः।
अथ चिरात्सर्वेष्ववाङ्मुखेषु, ‘किमु ब्रूयादयमन्धः’ इत्युत्कण्ठा विवेश चतुरं गुरुम्।
‘बाह्येऽस्मिन् प्रपञ्चे सन्तु नामानेकानि स्थविष्ठानि द्रव्याणि, तथापि तानि सर्वाण्यत्येति दृढसङ्कल्प एव। स हि शस्त्रमपाकरोति, लोहं विद्रावयति, पावकं प्रशमयति, जलं च बाष्पीभावयन्नन्तरिक्षं प्रत्युदस्यति’ इति तावदेव बभाषे दृष्टिविहीनः।
अनुबुबुधे चानेन वचसा गुरुरमुष्यान्तेवासिनो दृढनिश्चयस्य गरीयस्त्वम्।