You are here: Home » stories » 138
137 
 139

गरीयसी हि महतां कर्तव्यधुरा

प्रत्यग्रोन्निद्रराजीवश्रियं नयनाभ्यामापिबन्निवैकाग्रचित्त आस भगवान् सुगतः, यः किल प्रत्यूषे कासाररोधसि निषण्णः सुखस्पर्शं गन्धवाहं सिषेवे। अक्षमश्चामुष्या अम्भोजसुषमाया आस्वादनाद् विरन्तुम्, ससंभ्रममुत्थाय सरस्यवतीर्य सविधनलिनस्य सौरभमाघ्रातुमुपचक्रमे। अवाप च तेनामोदेन काञ्चिदनुपमां सात्त्विकीं निर्वृतिं स महात्मा।

अत्रान्तरे प्रादुरासीत् काचिद्गीर्वाणकन्यका, जगाद च तं मुनिम्— “अदत्त्वा किमपि निष्क्रयमाजिघ्रसि किमु कुसुमामोदम्? स्तेयमेतदङ्ग! पुष्पगन्धममुमचूचुरस्त्वम्!” इति।

स्तम्भीचकारादो गीर्वाणकन्यकावचस्तथागतम्। एतस्मिन्नन्तरे कश्चिदन्यः पुमांस्तत्रागत्य निष्करुणं बहूनि नलिनानि उन्मूलयितुं प्रचक्रे। सुचिरमनुववृते तस्यादः क्रौर्यम्, न च कोऽप्यमुं न्यषेधीत्। तन्निरीक्ष्य पप्रच्छ तां सुरवनितां मुनिः— “अयि सुरबाले! आमोदमात्रमुपाघ्राम्, न कुसुमान्यस्प्रक्षं न वाऽच्छैत्सम्। तथापि स्तेन इति मामगर्हिष्ठाः। न किञ्चिदप्यवादीस्तं जनम्, यः किल निष्करुणं बहूनि राजीवकाननानि उन्मूल्य सरसीमिमां कलुषीचकार! किमर्थमियं विषमता?”

ततो गीर्वाणकन्यका प्रत्यभाषिष्ट— “भो मुने! लोभतृष्णापहतचेतसो हि पामरा न विदुः पुण्यापुण्ययोस्तत्त्वम्। तेन च न तेषु नितरामवलम्बते धर्मसंरक्षणधुरा। ये पुनर्धर्मनिष्ठाः सदसती विविच्य विशुद्धिं लिप्सन्ते, तेषामल्पीयोऽपि स्खलितं महते पातकाय कल्पते। त्वं खलु तथागतः सुगतः! अतस्त्वं नितरामवदध्याः। गरीयसी हि महतां कर्तव्यधुरा!” इति।

निशम्य चामुष्या अदो वचो निजस्खलितमन्वमंस्त सुगतः, अनुशयेन चावननामाननं तस्य।

137 
 139
Search
stories/138.txt · Last modified: 2026/04/11 05:23