कस्मिंश्चिद्राज्ये भिक्षुदासनामा कश्चनार्थी विधिना जन्मना चरणविकलोऽध्यावसत् । स किमपि कर्म समाचरितुं न शशाक, अत एव परेषामन्तिके याचनया स्वकीयोदरम्भरितामेव जीविकामाकलय्य दिनानि निन्ये । तेन च स नितरां सनिर्वेदचेता बभूव ।
एकदा प्रत्यूषसमये जठरानलज्वालया प्रेर्यमाणः स भिक्षाटनचर्यया प्रातिष्ठत । अध्वनि च वित्तेशभवनप्रतिमं कस्यचिदाढ्यस्य सौधमेकं ददर्श । तस्य हर्म्यस्य पुरस्तात् समुपस्थाय पिपासापरिक्षामकण्ठः स भिक्षामदेहीत्युच्चैर्जगाद । एतस्मिन्नेवान्तरे गृहाभ्यन्तरात् कश्चन गम्भीरध्वनिस्तस्य कर्णपथमाजगाम ।
स च स्वरस्तेन सद्मपतेरेवेति प्रत्यभिज्ञातः । स पुरुषो देवीं कामपि प्रार्थयमानः शुश्रुवे — “देवि ! मयि प्रसीद, अरुजं मे वपुः कुरुष्व । स्वास्थ्यधनमेव याचे त्वाम् ।”
तदाकर्ण्य भिक्षुदासो हृदयेनैवं व्यमृशत् — ‘हन्त ! अत्रापि कोऽप्यर्थी वसति खलु । याचकादन्यस्य याचकस्य याचना न युक्तिमती प्रतिभाति ।’ इति सञ्चिन्त्य तस्मात् प्रासादान्न्यवर्तत । किञ्चिदेव दूरमपक्रम्य सोऽन्यद् निकेतनमवाप । तदपि कस्यचिद् वसुमतः पुंसो धाम बभूव । तत्रापि तेनान्यस्य पुरुषस्य प्रार्थना अश्रावि । स तु गृहपतिः स्वजायां प्रति भाषमाणोऽभूत् — “प्रिये ! त्वं निजतातसदनाल्लक्षरूप्यकाणां राशिं समानय, नो चेन्मदीयेषु व्यापारेषु सर्वनाशो भविता ।”
तथापि तस्य गृहस्वामिनोऽर्थनां निशम्य भिक्षुदासश्चेतस्याशशंसे — ‘अस्मिन् गृहे वा लवलेशोऽपि लप्स्यते मया’ इति, किन्तु पुनरेवमचिन्तयत् — ‘एषोऽपि मत्समो दरिद्रो याचनक एव । मह्यमेष किं वा प्रदास्यति ?’ इति विनिश्चित्य सोऽपरं गृहमुपजगाम ।
तस्य सद्मनः प्राङ्गणे नानाविधवर्णोज्ज्वलैः कुसुमैः फलभरनम्रैश्च तरुलतादिभिर्नन्दनवनश्रीरनुचक्रे । सर्वमेतद् विलोक्य भिक्षुदासः क्षणमात्रं परितोषमन्वभवत् । भवनस्य पुरस्तात्तु गृहपतिर्नयने निमील्य भगवन्तमुच्चैः स्वरैस्तुष्टाव — “हे भगवन् ! किं ममैतादृशीं दुरवस्थां न वेत्सि त्वम् ? कृपया मामपि कोटिधनस्वामिनं विरचय ।”
एतदपि विलोक्य स पङ्गुस्ततोऽपि प्रतिनिववृते । अथ तस्य चेतसि कश्चन विवेकदीपः प्रादुरासीत् । स मनसा व्यचारयत् — ‘अहो नु खलु विचित्रता जगतः ! अत्र हि सर्वेऽपि केनापि मिषेणार्थिन एव संवृत्ताः । सर्वेऽपि जना लोभाक्रान्तचेतसो भूयोभूयोऽर्थलिप्सया याचन्ते । अहं पुनरेकः केवलं जठराग्निप्रशमनार्थमर्थये । तर्हि वस्तुतोऽहमेव श्रीमान्, यस्य मनसि परितोषो नाम परमो निधिर्विद्यते । अत एवाहमेव श्लाघनीयभाग्यधेयः ।’