दुष्कर्मोपशमः
आसीत्कश्चन परस्वादानप्राणिहिंसादिनिर्दयवृत्तिर्दस्युः, यो हि देहयात्रायै नान्यां गतिमविन्दत। तेनैव च गर्हणीयकर्मणा स्वजीविकामनैषीत्। जुगुप्सितमिदमाचरणमिति जानन्नपि स दुर्वृत्तपङ्कान्नोन्मज्जितुं प्राभवत्। तथापि श्रेयसोऽभिलाषस्तस्य चेतसि कदाचन प्रादुरभूत्, येन प्रेरितः स मनीषिणामनुशास्तिं श्रोतुं साधुसमाजं जगाम।
कदाचन स सद्गुरुनानकदेवस्य धर्मामृतवर्षिणीमनुशास्तिमाकर्णयितुं तत्सकाशमुपजगाम। तत्रोपदेशेऽसत्यभाषणस्तेयादिदुराचाराणां गर्हणीयतां प्रतिपाद्य “हेया इमाः प्रवृत्तय” इति तेनोपदिष्टमासीत्। सर्वेषु च जनेषु विप्रस्थितेषु सत्सु स तस्करस्तं देशिकप्रवरं प्रणिपत्य स्ववृत्तान्तं निवेद्यैवमपृच्छत् — “भगवन्, दुर्वृत्तपङ्कमग्नोऽस्मि, कथं नाम ममाभ्युदयो भविता?” इति।
तदाकर्ण्य नानक उवाच — “अये, उपरमाखिलचौर्यादिकर्माचरणेभ्यः। देहवृत्तये च स्वेदार्जितं कर्म समाचराः।”
अथ मासातिक्रमे स मोषकः पुनरागत्य नानकं बभाषे — “महात्मन्, नाहं चौर्यादिभ्यो विरन्तुं प्रभवामि। यदैवाहमायासाय सज्जीभवामि, तदैव चेतो मामिति प्रणुदति — ‘अनायासलभ्यं धनं स्तेयेन, तत्किमिति नाचरिष्यसि?’ इति। अतो यतमानोऽपि दुर्व्यसनेभ्योऽमुभ्यो निवर्तितुं न पारयामि।”
“भवतु नाम। अनुवर्तस्व तर्हि चौर्यादिकम्,” इति स्मित्वा जगाद नानकः।
“तेन तु कल्मषं महदार्जिषीष्ट?” इति ससंभ्रमं चोरः प्रत्युवाच। तच्छ्रुत्वा नानकोऽवोचत् — “विद्यत एव तस्य प्रतीकारोपायः। त्वया यद्यच्छुभाशुभं कर्म तस्मिन्नहनि समाचरितं स्यात्, तत्सर्वं सायंसमये जनानां समक्षं व्याहर। परं नानृतं ते कदाचिदपि व्याहर्तव्यम्।”
“एवमस्तु” इत्यभ्युपगम्य स ययौ। अथ पक्षेण परस्तात्प्रत्यावृत्त्य स पुरुषो जगाद — “आर्य, स्वदुश्चरितानां जनसंसदि प्रख्यापनजनितया त्रपया ह्रियमाणोऽधुनाहं तेभ्यो गर्हणीयकर्मभ्योऽशेषत उपररामेति।”