140 
 142

मारुतिकृपाविलसितम्

एकनाथमहाराजान्तिकं जगाम जातुचित् सूर्याजीपन्ताख्यः। प्रथमजोऽस्य सूनुर्गङ्गाधराभिधानः। ‘श्रेष्ठ’ इत्यन्वर्थया संज्ञया तमेव एकनाथमहाराज आजुहाव। कालक्रमेणायमर्भकः सर्वैरपि जनैस्तथैवाख्यायत।

निसर्गप्रशान्तस्वान्तोऽसौ वटुः पञ्चम एव हायन उपनीतिमाप, सर्वनियमोपेतं ब्रह्मचर्यं च चचार। अथातिक्रामति सप्तमे संवत्सरे देशमुखकुलजया दारिकायाः पाणिग्रहणं च स चकार।

आ शैशवादेवामुष्मिन् भगवत्पदारविन्देषु भक्तिरसपानलालसा काचिदपूर्वैव समुल्ललास। दशमं वर्षमवगाहमानोऽसौ निजजनकमुपससर्प ययाचे च - ‘तात! वितर मह्यमनुग्रहप्रसादमिति’।

‘अनुग्रहविषये नास्ति मे मनागपि व्युत्पत्तिः’ इति तं प्रतिजगाद जनकः। ‘देवायतनेषु खलु समिन्धते देवप्रतिमाः। यदभिलषसि तत् तमेव परमेश्वरं वृणीष्व। व्रज हनूमन्मन्दिरम्, तमेवाभ्यर्थयस्व च’ इति।

पितृनिदेशं शिरसा दधदयं देवागारं प्रविश्यासनं बबन्ध। एकादशवासरान् यावन्निराहारस्तपो दुश्चरमतप्यत। दशहायनस्यामुष्य बटोरमानुषीं निष्ठां तादृशं तपो निशाम्य परितुष्यन् मारुतिः प्रादुर्भूय बभाषे - ‘किं वाञ्छसि? यदभिलषसि तद् वृणीष्वेति’।

‘अनुग्रहं मे प्रयच्छ’ इति स बालस्तमभिययाचे।

तदाकर्ण्य विहसन् पवमानसुतो व्याजहार - ‘अतिबालोऽसि त्वम्। किमर्थमीदृशीं त्वरां कुरुषे? यस्ते जन्म व्यदधात्, स एव त्वामनुग्रहीष्यति। मामप्यसावेवान्वग्रहीत्’ इति।

एतदाकर्ण्य स श्रेष्ठः प्रत्युवाच - ‘यद्यनुग्रहो न लभ्येत, तर्हि नेदं वपुः सप्राणमवतिष्ठेतेति’।

तस्यामुमतिदृढं निश्चयं निशाम्य वायुसूनुस्तुतोष, तस्मै च सीतापतिमदीदृशत्। श्रीरामचन्द्रश्च तस्मिन्नेव मन्दिरे तस्मै त्रयोदशाक्षरं मन्त्रमुपदिदेश, ‘रामीरामदास’ इति चास्य नामधेयं चकार। ततः परमसौ यान् यान् प्रबन्धान् प्रणिनाय, तेषु सर्वेष्वपि ‘रामीरामदास’ इत्येवात्मनो नामाङ्कनं निबबन्ध।

140 
 142