You are here: Home » stories » 142

दुःखावहं ह्यमरत्वम्

अमरणधर्मतामधिजिगमिषुरसौ कश्चिदवनीपतिर्बभूव। तदुपायमहरहरनुध्यायन्नखिलाञ्जनान् स पप्रच्छ।

कदाचिदेको मस्करी तमिदं जगाद - “विद्यते खल्वेक उदपानः, यदीयं वारि निपीयामृतीभवति मर्त्यः। परमहमविदिततद्देशोऽस्मि। तदन्वेषणाय प्रयतेथाः” इति।

तदङ्गीकुर्वन्नसौ क्षमापतिः सुधास्राव्युदपानानुसन्धानायाखिलासु ककुप्सु चरान् प्रजिघाय। सर्वतो विचिन्वाना अमी भटाश्चिरान्तेनामुष्य निपानस्य देशमन्वविन्दन्। ततश्च निवृत्यास्मै क्षमाभुजे न्यवेदयन्।

इममुदन्तमुपश्रुत्य भृशं प्रमुमोद नृपः। एकाक्येवैनमुदपानमुपससर्प। तस्माद्वारि समुद्धृत्य पातुं यावदुद्येमे, तावदेवान्तिकादश्रौषीत् कञ्चिच्छब्दम् - “राजन् ! विरमैतस्माद् दुराग्रहात्। मा स्म पिबस्त्वमिदं वारि” इति।

समन्ततो दृष्टिमक्षिपत् सः। तत्र कूपकण्ठे निषण्णं कञ्चिद्वायसमद्राक्षीत्। स च वायसो जगाद - “अहमेवेत्थमवोचम्” इति।

“किमर्थमित्थं भाषसे? अमृतीभावमधिजिगमिषामि। तदर्थमेवाहमत्रायासिषम्” इत्यवदद्भूपालः।

अथ प्रत्युवाच मौकुलिः - “पुरावृत्तेऽहमप्यमरत्वमभिलषन्नस्योदपानस्य वार्यपिबम्। ततोऽमरणधर्मतामन्वविन्दम्। परमिदानीमहं भृशमनुतपे। मदीयाः कुटुम्बिनः, ज्ञातयः, सुहृदश्च पञ्चत्वमापुः। कालोऽतिचक्राम। युगपर्यायो जज्ञे। जनानां विचाराश्च पर्यवर्तन्त। तथाप्यहममृतीभावमवाप्य यथापूर्वमेवावतिष्ठे। कृतान्तो मां नोपसर्पति। एकाकितामवाप्य चाहमहरहः परिदेवे। अमरणधर्मतया न किमप्यसाधयमिति सम्यगवागमम्। परं यमो मम सविधमपि नोपैति। मदीयायाः शुचः पारमेव न विद्यते” इति।

इदमाकर्ण्य प्रक्षालितमोहान्धकारोऽसौ क्षितिपतिस्तद्वारि तत्रैवापातयत्। तञ्च वायसं नमस्कृत्य स्वभवनं प्रतिजगाम।

Search
stories/142.txt · Last modified: 2026/04/12 15:14