ग्रामाद्ग्राममटन्निदं जगदन्वशिषद्भगवान् शाक्यमुनिः—‘गवेषणीयं परमतत्त्वम्, यतितव्यं चापवर्गाय’ इति। तदीयां धर्मदेशनामुपशुश्रूषमाणानां जनानां सुमहान् सम्मर्दो जज्ञे।
अथ कदाचित्तमुपससादैको जिज्ञासुः, पप्रच्छ च—“भगवन्, परमतत्त्वसाक्षात्काराय कैवल्यप्राप्तये च प्रयतितव्यमिति भवता जनोऽयमनुशिष्यते। किन्त्वस्त्येको मे संशयः—भवदुपदेशमासाद्य कियद्भिर्जनैरद्यावधि परमार्थो व्यज्ञायि, कतिभिर्वापवर्गमार्गः समाश्रायि ?”
“श्वोऽमुष्य प्रश्नस्य प्रतिवचनं प्रवक्तास्मि। तदन्तरा ग्राममटन् को नाम किमाकाङ्क्षतीत्युपलभ्य निवर्तस्व” इत्याचचक्षे भगवान्।
ततस्तदुपश्रुत्य गृहाद्गृहमटन्नाह्वयामास स जिज्ञासुः—“किमाकाङ्क्षसि त्वम् ?” इति। योषितोऽपि न पर्यहासीत्। क्लेशोपशमनिरामयत्वे, सन्तानवृत्तिलाभवित्तागमान्, पौत्रप्राप्तिवेश्मसाहाय्ये चेत्येवमादीन्येव हि ते जना अभ्यलषन्। साधिकशतद्वयप्रमितान् जनान् स पप्रच्छ। सर्वेऽपि तादृशीरेव स्पृहा आविश्चक्रुः।
अपरेद्युर्यदा स जिज्ञासुः सुगतं दिदृक्षमाण उपजगाम, तदा भगवानन्वयुङ्क्त—“परमार्थतत्त्वं दिदृक्षमाणाः, अपवर्गं चाभिवाञ्छन्तः कति जनास्त्वया ददृशिरे ?”
“नैकोऽपि। ऐहिकभोगान्, भौतिकवस्तूनि, सांसारिकप्रयोजनानि चैवामी सर्वे लिप्सन्ते” इति स न्यवीविदत्।
“अलम्भि ननु ते संशयस्य प्रत्युक्तिः ? जनास्तु मदीयामनुशास्तिं सादरोपचारं शुश्रूषन्ते। किन्तु परमतत्त्वसाक्षात्कारे, अपवर्गमार्गसमाश्रयणे वा न कस्यापि स्पृहा जायते। स्पृहाविरहे कुतः प्रयासः ? प्रयासमन्तरेण कथं वा फलमवाप्येत ?” इत्याचचक्षे सुगतः।
“अवितथमिदम्। सति प्रयासे फलमधिगम्येत। सत्याञ्च स्पृहायां प्रयासः सम्भवेत्। प्रबलामाकाङ्क्षाम्, अनवरतप्रयासञ्चान्तरेण न किमपि सत्फलमवाप्यते” इत्युदीर्य स ततो निरगात्।