You are here: Home » stories » 149
148 
 150

नियमनिष्ठायाः साफल्यम्

बभूव किल जगत्प्रथितपारितोषिकभाग् भारतरत्नोपाधिभूषितश्चन्द्रशेखरवेङ्कटरामाख्यो वैज्ञानिकाग्रेसरः। अन्वहम् असौ देवताराधनाय, उपनिषत्स्वध्यायाय च कियन्तञ्चित् कालं नियमतो निनाय। अमुष्येदं वृत्तं ध्यायंध्यायमन्यो वैज्ञानिकोऽमुं बभाषे - “लब्धवर्णोऽसि विज्ञानशास्त्रे। येष्वंशेषु विज्ञानं न मानं, तेषु न त्वं वर्तेथाः। सर्वथा ह्ययुक्तो धर्मकार्येषु प्रत्ययः। किमर्थमिदं सर्वमाचरसि?” इति।

“पारलौकिकश्रेयसे सद्गतये च” इति स व्याजहार।

“किन्नाम पारलौकिकम्? तत् किं विज्ञानसिद्धम्? अस्त्यमुत्र लोको नामेत्यत्र किं मानम्? यं समर्चसि स देवः क्वास्ते? किमु स त्वयाऽदर्शि?” इति जिज्ञासुरपरः पप्रच्छ।

तदा वेङ्कटरामार्यो जगाद - “तथ्यमेवैतद् यद् विज्ञानविद्वानहं विज्ञानसिद्धेष्वेवांशेषु वर्तेयेति। परन्त्वीश्वरो नास्ति, परलोकोऽपि न विद्यत इत्यत्र विज्ञानं किमपि प्रमाणं नोपदर्शयति खलु?”

“प्रमाणहीनानि खल्वमूनि तत्त्वानि। तादृशेषु विज्ञानवित् सर्वथा न वर्तेत” इत्यपर आह।

“ईश्वरस्यास्तित्वं परलोकः पुनर्जन्म सद्गतिरित्यादीनि तत्त्वानि साम्प्रतं प्रामाण्यकोटिं नाटीकन्ते। आयत्यां तेषां प्रामाण्यं चेत् सिद्ध्येत्, न तत्राश्चर्यम्। अप्रमाणानाममीषामर्थे मयान्वहं योऽतिवाह्यते कालः, स कदाचिन्मोघः स्यात्। नाहं तद्विषये भृशं खिद्ये। यदि तु कालो न दीयेत, पश्चाच्च तेषां प्रामाण्यं सिद्ध्येत्, तर्हि 'हा, नास्मिन्नर्थेऽल्पीयानपि कालो मयात्यवाहि' इति महाननुशयः सोढव्य आपतेत्। तेन खलु पश्चात्तापेन किमु साध्यम्? नित्यनैमित्तिकनियमैरात्मानं बध्नतामस्माकं फलाप्राप्तावपि नियमनिष्ठानुगृह्णीयादेव। तत एवाहमस्मिन् जीवने कांश्चन दैनिकनियमान् अनुपालयामि” इति वेङ्कटरामार्यो न्यगादीत्।

एतदाकर्ण्य स विज्ञानी तूष्णीम्भूतोऽवतस्थे।

148 
 150
Search
stories/149.txt · Last modified: 2026/04/20 12:42