धर्मदेशनाप्रस्तावे कदाचिद्व्याजहार भगवान् बुद्धः—'अहो उपासकाः ! द्राघीयसीं वेलामतिक्रामत्यसौ कालः, तत्प्रबुध्यध्वम्' इति ।
अवसितायां च देशनायामुपसृत्य काचिद्विलासिनी—‘भगवन् ! अद्य खलु कस्यचिदिभ्यस्य सौधे लास्यमहं प्रदर्शयेयम् । तदेतदशेषेण व्यस्मरम् । भवदीयोपदेशाकर्णनात्तु तत्पुनरन्वस्मरम् । महान्तमुपकारमकार्षीद्भवान्’ इति निगद्य निर्ययौ ।
तदनु कश्चन पाटच्चरः समेत्य शाक्यमुनिं प्रणिपत्य व्याजहार—‘देव ! मोषो हि मे कौटुम्बिकं कर्म । प्रत्यहं त्ववहितमना भवतो धर्मोपदेशमुपशृणोमि । भवद्वाक्याकर्णनेन चाद्य यन्मोषणमहं करिष्यामि तदन्वस्मरम् । बाढमन्वग्रहीद्भवान्’ इति । इत्थं निगद्य सोऽपि प्रातिष्ठत ।
अथ कश्चित्स्थविरः समुपेत्य भगवन्तं बभाषे—‘आर्य ! यावज्जीवं वसुसञ्चयमेवाभिनिविविशे । सुकृतोपार्जने तु न जातु चेतो न्यदधाम् । इतोऽग्रे वा खलु धर्मं सञ्चिनुयाम् । भवदीयप्रबोधनेन च मे ज्ञानाक्षिण्युदमीमिलद्भवान् । अत ऊर्ध्वं सुकृतसञ्चयायैव सततं प्रयतिष्ये’ इति निगद्य सोऽपि निरगात् ।
यदा ह्यमी सर्वे निरगुस्तदा शिष्यमानन्दमाललाप भगवान्—‘आनन्द ! धर्मदेशनाप्रस्तावे एकमेव वचोऽहं व्याजहार । किन्तु प्रत्येकममी जनाः स्वस्वान्तर्गतवासनानुरूपमेव तस्य तात्पर्यं जगृहुः । यावत्खल्वमुष्य भाजनस्य परिमाणं तावदेव पयो महोदधेरुपादीयते । अपवर्गश्रियेऽपि काचिदसाधारणी योग्यताकाङ्क्ष्यते । सा च विरलेष्वेव पुंसु समुपलभ्यते । विशुद्धं चेदन्तःकरणं तर्ह्येव सा योग्यतावाप्येत । इतरथा तु निखिलोऽपि जनः स्वस्वाभिनिवेशानुरूपमेव फलं समश्नुते’ इति ।