You are here: Home » stories » 168
← 167 
 169 →

चित्तप्रशान्त्युपदेशः

अविरतमुद्विग्नचेता बभूव कश्चिदन्तेवासी। भृशमायस्यापि न शशाकामुष्य चेतः प्रशान्तिमधिगन्तुम्। कदाचिदसावात्मनो मनोमालिन्यं देशिकस्यान्तिकमासाद्य तस्मै न्यवेदयत्। तदाकर्ण्य तमुपदिदिक्षुर्गुरुरेतामाख्यायिकामाचचक्षे।

पल्लवास्वादनलम्पटो विजहारैकदा कश्चिन्मातङ्गः। अत्रान्तरे समुपागत्य कश्चिद्द्विरेफोऽमुष्य श्रुतिमूले मुहुर्मुहुर्जगुञ्ज। नितान्तमनादृत्य तन्निनादं स सिन्धुरस्तु स्वाहार एव दत्तावधानो बभूव। अमुष्य श्रवणौ परितो बभ्राम भृशं रराण च स षट्पदः। तथापि निर्विकारस्त्वसौ गजपतिर्यथापूर्वं पर्णभक्षण एवासक्तोऽतिष्ठत्।

अन्ततो गत्वा परिश्रान्तः स भृङ्गस्तत्कर्णपालौ निषद्य पप्रच्छ— “अये गजेन्द्र ! कच्चिद्बाधिर्यमगाः ? किं नाश्रौषीर्मम गम्भीरं गुञ्जितम् ?”

“नैवास्मि बधिरः। अश्रौषमेव ते रुतम्। किन्त्वस्त्येको मे संशयः— किमर्थं त्वमजस्रमतितीव्रचापल्यं बिभर्षि ?” इति प्रतिपप्रच्छ कुञ्जरः।

इदमाकर्ण्य जगादालिः— “यद्यदीक्ष्यते श्रूयते वा मया, तत्सर्वं मां प्रकम्पयति। अत एव निरन्तरं मे मानसे विचारोर्मयः समुल्लसन्ति। तेन मुहूर्तमपि निर्वृतो भवितुं न पारयामि। तत एव मे चेष्टितेष्विदमपारं चाञ्चल्यम्। तदास्तां तावत्, कथं नु खलु त्वं सर्वदा प्रशान्तमना वर्तसे ?” इति।

“मयापि विविधैरिन्द्रियैर्नानाविधा विषया गृह्यन्त एव। तथापि न ते मामन्तः क्षोभयितुमीशते, यतो मे चेतो नित्यमेव वशीकृतमास्ते। यस्मिन् कर्मणि प्रवर्ते, तत्रैवैकाग्रं मनो निदधामि। तस्मिन्नवसरे नान्ये विषया मे मानसमाक्रान्तुं प्रभवन्ति” इति व्याजहार वारणः।

कथामिमामुपसंहरन्नाह देशिकः— “परितो यद्यत् संघटते तत्र जाग्रती दृष्टिः स्यान्नाम। परन्तु ते बाह्या व्यापारा नान्तराले किञ्चिदपि वैक्लब्यमुत्पादयेयुः। यदपि कर्मारभ्यते तत्रैव साकल्येन चेतोऽवगाहेत। नास्माकं निश्चयो बाह्योपाधिभिः कलुषीक्रियेत। अयमेव खलु चेतःप्रशान्तेरक्लिष्टः पन्थाः” इति।

← 167 
 169 →
Search
stories/168.txt · Last modified: 2026/05/24 13:20