परार्थसमर्पणमेव जीवनम्

कस्मिंश्चिद्विद्यामण्डपेऽन्तेवासिनोऽनुयुयोज कदाचिद्देशिकः— “प्रथतेतरां खल्वमुष्य भूरुहः परार्थैकान्तिकी वृत्तिः। प्रभवति ह्यस्यैकांशोऽपि महतेऽर्थाय। तदमीषां तरुभागानां कीदृशं स्वरूपमापत्तुं यूयमभिलषथ?” इति।

“पर्णतामेवापन्नोऽहं रमे” इति जगाद कश्चिदुत्थाय। “प्राणानिलं वितन्वद्दलं ह्यनुगृह्णाति भुवनम्। तरणिमरीचिभ्य ऊर्जमादायैनं पादपमेधयति। आतपक्लान्तेभ्यो जनेभ्यश्छायां च वितरत्येतदेव” इति।

“कुसुमभावाय स्पृहयामि” इति व्याजहारान्यो वटुः। “नानावर्णविच्छुरितं परिमलमुद्वमच्च विलसत्यदः प्रसूनम्। अत एव सर्वजनहृदयङ्गममिदम्। भक्तिनम्रैर्जनैस्त्रिदशेभ्योऽप्येतदेवोपह्रियते” इति।

“फलमात्मना बुभूषामि” इत्युदीरयामास तृतीयः। “माधुर्यगर्भं तदाबालवृद्धं सर्वेषां प्रमोदमातनोति। क्षुत्क्षामकण्ठा ह्यस्योपयोगेन परमां निर्वृतिमुपगच्छन्ति। अस्मादेव बीजोत्पत्तिस्ततश्च नवाङ्कुरप्ररोहः सम्पाद्यते” इति।

“शाखात्वमधिगन्तुमीहे” इति बभाषे तुरीयः। “विटपिनः प्रतानाय तावदियमेव कल्पते। मृगद्विजादयोऽस्यामासीनाः श्रममपनयन्ति। शुष्कतामुपागतापीयं समिद्भावमवाप्य हुतभुजमाप्याययति” इति।

अवतस्थे तस्मिन्नेव पाठमण्डपे कश्चित् प्रज्ञाचक्षुरपि माणवकः। “किंस्वित् त्वमभिलषसि?” इति तमनुयुयोज देशिकः। “मूलभावं लिप्से” इति प्रत्यवादीत् स नेत्रहीनः। “क्षोणीं विदार्य प्रसरददः सम्बिभर्ति महाद्रुमम्। न खलु पश्यत्येतज्जगतः सुषमाम्, मदीयमिव तदीयमपि तमोमयं जीवितम्। तथापि सर्वानन्तरायान् प्रतिव्यूह्य जीवदपीदं महतो वृक्षस्य सुदृढमधिष्ठानं भवति। तादृशमेव नैराश्यवर्जितं जीवनमहमपि कामये” इति।