मातृभाषाप्रणयविभवः
प्राहुणिको बभूव किल देशाटनव्यसनी कश्चन रघुवीराभिधो विपश्चिदमुष्य फरांसीदेशीयस्य सद्मनि कदाचित्। उपजगाम खल्वमुं तत्रत्यं भारतवर्षात्प्रहिता कापि लेख्यपत्रिका। ददर्श चैनां गृहपतेर्दुहिता जगाद च-“आर्य, दिदृक्षामहे तावदायुष्मद्देशीयानामक्षरविन्यासमतो दर्शयैनं लेखम्” इति। अमुष्यै च तं लेखं निदर्शयां चकार स धीमान्, यश्च खल्वाङ्ग्लगिरा तदीयलिप्या च व्यरच्यत। विलोक्य चैतद्बभाषे सा बाला-“किमु न विद्यते युष्माकमात्मीया कापि वाङ्नापि लिपिः? किमर्थमाङ्ग्लगिरा व्यवहरथ?” इति।
शुश्राव चेममुदन्तं तस्याः कुमार्या जननी। जगाद चेयं कोपमयी -“भोः पान्थ, अन्यस्मिन्कस्मिंश्चिन्निवस वेश्मनि नातः परमिहास्मदीयसदन आतिथ्यमर्हसि। म्लेच्छं खलु तं मन्यामहे यस्यान्तरङ्गे न जाज्वल्यते स्वदेशे स्वगिरि च कोऽप्यभिमानः। आसीद्धि मम प्रसविनी गाढमातृभाषाभिमानिनी, तामेव च सन्ततिमनुसराम्यहमपि।”
सविस्मयं च ददर्श तस्या वक्त्रमयं विपश्चित्। अनुबबन्ध च सा कुटुम्बिनी स्वकथाम् -“अध्यूवास किल 'लोरेन्'नामकं जनपदं मम माता। द्वितीयविश्वसङ्ग्रामसमये चासौ देशो जर्मन्यधीनो बभूव। ततश्च सर्वत्र जर्मनीगिरामेव प्रचारः समजायत, व्यरुध्यत च विद्यामन्दिरेषु फरांसीवाचां प्रयोगः। आजगाम कदाचिज्जर्मनीया महिषी तस्या मे मातुर्विद्यापीठम्, सुतरां च मुमुदे तत्रत्यप्रबन्धनव्यवस्थां विद्यागुणोत्कर्षं च विलोक्य। सा पप्रच्छ छात्रानेवम् -'को वा युष्मासु जर्मनीयं राष्ट्रगानमविकलमभिजानाति?' इति। न कश्चन माणवकस्तज्जज्ञौ, किन्तु मम माता बुबोध, जगौ च कलमधुरस्वरेण तद्गानम्। तुतोष चामुना गीतेन सा राज्ञी, जगाद च -'अहो ते मेधाप्रकर्षः। दास्यामि ते यदभिलषसि, ब्रूहि किं वाञ्छसि?' इति।
तदा च बभाषे मम माता - 'अस्मिञ्जनपदे सर्वोऽपि व्यवहारः फरांसीगिरा सम्पद्येतातो न खलु जर्मनीवाचा। किमेनां मे मनोरथसिद्धिं विधास्यसि?' इति। क्षणमेकं चकितीबभूव सा महिषी। ततो जगाद-'वत्से, व्यजैषीः खलु माम्। यच्चतुरङ्गिण्या चम्वापि दुष्करं तदेतत्त्वयासाधि। महिषी सती नाहं ते प्रार्थनां प्रत्याख्यातुमुत्सहे। तस्मान्मदीयां मातृगिरमप्यवधीर्याहं ते मनोरथं पूरयिष्यामि। इतः परं लोरेन्जनपदे फरांसीवाचैव सर्वोऽपि व्यवहारः सम्पत्स्यते, न तु जर्मनीगिरा' इति।
इमं चोदन्तमाख्याय सा फरांसीकुटुम्बिनी बभाषे-“ईदृश्याः प्रखरवागभिमानिन्या दुहिताहमस्मि। स्ववाक्प्रणयप्रसादादेव खल्वच्छिदामामूं पारतन्त्र्यशृङ्खलाम्। तस्मान्नैव क्षमामहे वागभिमानशून्यताम्” इति।