षोडशशताब्द्यां केरलेषूवास गुरुवातपुरेशभक्तवरेण्यः कश्चित् पून्तानाख्यः। अवापुः परमां मुदं श्रोतारो निशम्य तद्वक्त्रारविन्दगलितां भागवतामृतधाराम्। भागवतवाचनाय प्रचक्रमे स भक्तसत्तमः कदाचित् कोट्टियूराख्यनगरस्थं धूर्जट्यायतनमुपेत्य। तत्र हि दशमस्कन्धषष्टितमाध्याये श्रीकृष्णरुक्मिणीसंवादमधिकृत्य प्रवचनमारेभे। अतीव हृदयङ्गमं तमाख्यानभागं सम्यक् पठित्वा, तदीयमर्थञ्च विविच्य, परेद्युः पठनीयांशस्मरणाय किञ्चित् पत्रचिह्नं तत्र निधाय प्रतस्थे स देवकुलात्।
परेद्युस्तु तदध्यायस्यादावेव तत् पत्रचिह्नं विलोक्य विस्मयोत्फुल्ललोचनोऽसौ पुनरपि तमेव षष्टितमाध्यायं पपाठ। आवर्तयामास स इत्थमेव शेषेष्वहस्स्वपि तमेव कथाभागम्।
अन्तिमेऽहनि पारायणं समाप्य निर्गतोऽसौ स्रोतस्विनीमुत्तीर्य सुस्मार यत् स्वकीयं भागवतपुस्तकं देवायतन एव जहाविति। ग्रन्थमानिनीषुः स सत्वरं मन्दिरं प्रति निववृते। ददर्श च तत्र पिहितानि कपाटानि।
आयतनाभ्यन्तरात् कश्चन भागवतपठननिनादः तस्य श्रुतिपथं जगाम। ईषदुद्घाट्य कपाटं स गर्भगृहे चक्षुषी व्यापारयामास। ददर्श च तत्र साक्षान्नीलकण्ठमेव भागवतं पठन्तम्। तस्थावन्तिके जगदम्बा भवानी च प्रमथगणैः साकं तच्छृण्वती।
पप्रच्छ भर्गो भवानीं वाचनावसाने— “देवि! कच्चिद्रुरुचे ते मदीयं भागवतपारायणम्?” इति। व्याजहार ततो गिरिजा— “प्रकृष्टमेव खल्वासीत् तव पारायणम्, परं पून्तानस्य पठनमस्मादपि मधुरतरम्” इति। प्रत्युवाच चन्द्रचूडः— “बाढम्, सत्यमात्थ। अन्वभावि मयापि तस्य भक्तस्य पारायणमाकर्ण्यातिमात्रमानन्दः। न्यधायि मया प्रत्यहं तमेवाध्यायं श्रोतुकामेन तदध्यायस्यादावेव मुहुर्मुहुः पत्रचिह्नम्” इति।
आचुक्रोश सञ्जातरोमाञ्चः स भक्तवर एतदाकर्ण्य “हा देव! हा कृष्ण!” इत्युच्चैः। तमाशिषानुगृह्य तत्रैवान्तर्दधतुर्भवानीशङ्करौ तदाकर्ण्य तस्योपस्थितिं विदित्वा च।