You are here: Home » stories » 222
221 
 223

विद्यायाः स्वरूपं साधकस्य चावस्थाभेदाः

तिस्रः प्रतिकृतीरन्तेवासिभ्यः प्रदर्शयन् कश्चिद् देशिकः पप्रच्छ— “अमूषां मिथः किं नाम वैलक्षण्यम्?” इति।

“सैन्धवी खल्वेका, दुकूलमयी द्वितीया, दृषन्मयी च तृतीया” इति ता निपुणमवेक्षमाणाश्छात्रा जगदुः।

“अम्भसि निमज्जयतामूः” इत्यनुशासति गुरौ ते छात्रास्तथैव चक्रुः।

विलयं जगाम सलिलसंसर्गात् सैन्धवी। आर्द्रायमाणापि निजमाकारं न तत्याज दुकूलमयी। अगाधेऽम्भसि निमज्जन्त्यपि लेशतोऽपि विकृतिं न भेजे दृषन्मयी।

तमिमं दृष्टान्तं व्याचक्षाणो देशिको बभाषे— “ज्ञानामृतकल्पमिदं पयः। केचन मन्दाः पाषाणप्रतिकृतिसमानधर्माणो भवन्ति। विद्यापारावारे निमज्जन्तोऽपि, श्रुतमाददाना अपि ते स्वात्मनि मनागपि रूपान्तरं न भजन्ते। दर्पमलिनान्तःकरणास्ते दृषदायन्ते। मा स्म भूम वयं तादृक्षाः।”

“किं नाम तत्त्वमुपदिशत्यसौ दुकूलमयी?” इति कश्चिदन्तेवासी पप्रच्छ।

“सलिलमन्तरा पिबत्यसौ। केचन खलु ज्ञानोदन्यवः प्रकृत्या। ते हि गुरुवक्त्राद्, वृद्धव्यवहाराद्, ग्रन्थावमर्शाद्वा प्रज्ञां सञ्चिन्वन्तस्तदनुरूपं चेष्टमानाः प्रकर्षपथे पुरो गच्छन्ति। निसर्गतो मन्दप्रज्ञा अपि, आत्मानमेदिधिषमाणा यथाशक्ति प्रकर्षमश्नुवते ते।”

“तोये विलायं जग्मुषी सैन्धवी किं निर्दिशति?” इत्यपरो विनेयोऽनुयुयुजे।

“ईदृक्षा एव तत्त्वविदः। अहर्निशं प्रज्ञामुदञ्चयन्तस्ते तदनुरूपं व्यवहरन्ति। अहङ्कारविलयं साधयन्तस्ते चिन्मयीमेवावस्थामधिरोहन्ति। अनवरतं बोधविस्ताराय यतमानास्ते प्रकर्षपथेऽग्रेसरा भवन्ति। दर्पाटोपादयस्तेषु लेशतोऽपि न विद्यन्ते।

“बहुधा ह्यधीमहे वयम्, अनुशासनानि शृणुमः, अनुभवांश्च लभामहे। इत्थं यां प्रज्ञामधिगच्छामः साऽस्माकं वृत्तेऽपि स्फुटीभवेत्। प्रज्ञाविस्तारानुरूपं स्वात्मानमेधयन्तो वयं जीवने प्रकर्षं गच्छेम। तदैव खलु जन्मसाफल्यम्” इति जगाद देशिकः।

221 
 223
Search
stories/222.txt · Last modified: 2026/07/03 13:08