223 
 225

अविच्छिन्ना धर्मसन्ततिः

अध्वायासपरिश्रान्तः कश्चन परिव्राट् कमपि ग्राममजगाम। तत्र कस्यचिदावसथस्य द्वारि तिष्ठन्नसौ बभाषे गृहमेधिनम्— “अतिथयेऽस्मै क्षुत्क्षामकण्ठाय सुदूरादभ्यागताय दास्यसि किमु भिक्षाम्?” इति।

“अन्तः प्रविश भगवन्” इत्युदीर्य स गृहपतिस्तमभ्यागतमन्तः प्रवेश्योपवेशयामास विष्टरे। तद्गेहिनी चातिथिसत्कारपुरःसरं सुस्वादु भोजनमुपाहार्षीत्। यथेच्छं बुभुजे स मस्करी। मुहूर्तं यावच्छ्रमविनोदसुखं चान्वभूत्।

प्रस्थानाभिमुखश्चासौ यतिस्तस्मै गृहपतये किञ्चन हिरण्यं दातुमुपचक्रमे। तदा स गृही पप्रच्छ—“भगवन्, किमिदम्? किमर्थं मह्यं द्रविणं वितरसि?” इति।

“यत्त्वमन्नमदास्तस्य निष्क्रयोऽयम्” इति जगाद परिव्राट्।

“न हि धनलोभेन त्वामबूभुजम्। क्षुधार्तेभ्योऽन्नदानं सुकृतहेतुरित्येवाहं त्वां समतीतृपम्” इत्यब्रवीद्गृहपतिः।

“अर्थलिप्सया त्वं नैतदन्नमदा इति तथ्यमेव। केवलं भूतदययैव त्वं मामबूभुजः। परन्त्वन्नं प्राश्य यदि मूल्यमप्रदाय व्रजेयं तर्ह्यधमर्णः स्यां खल्वहम्।”

“मूल्यं चेदाददीय तर्ह्यहमेव किल्बिषमवाप्नुयाम्” इति गृहपतिः।

“न त्वं पापभाक् स्याः। सुकृतमेव त्वमचैषीः। मया वितीर्यमाणमिदं वसु स्वार्थेऽप्रयुज्य यदि पुनरप्यन्येभ्यः क्षुधितेभ्योऽन्नं दद्यास्तर्हि भूयोऽपि पुण्यमर्जयेः। एवं सति धर्मस्यास्य सन्ततिरविच्छिन्ना वर्तेत। तस्मादविशङ्कं गृहाणेदं वसु” इत्युदीर्याग्रहेण तस्मै धनं प्रदाय स तपस्वी प्रतस्थे। तौ च जायापती तं भक्त्या प्रणेमतुः।

223 
 225