You are here: Home » stories » 225

अपूर्वा सखिनिष्ठा

प्रथते हि पुरा प्रचुरवसुसम्पन्नो वासुदेवस्य प्राणाधिकसखा कुचेलो नाम बभूवेति। कथमसावकिञ्चनतामुपजगामेति विषये काचिदैतिहासिकी कथाप्यनुश्रूयते।

आस पुरा परिणतवयाः काचन तापसी, या खलु भैक्ष्यचर्योपलब्धमखिलमपि श्रीहरये निवेद्यैव बुभुजे। अथ कदाचित् त्रिरात्रं भैक्ष्यमनासाद्य सा तृतीयेऽह्नि सायाह्ने कतिपयांश्चणकान् लेभे। तानम्भसि क्लेदयित्वा मार्दवमुपनीतान् वाससा निबध्य, ‘श्वः प्रभाते भगवते निवेद्यैवामीभिरात्मानं धारयिष्ये’ इति सङ्कल्प्य सा सुष्वाप।

तस्यामेव निशीथिन्यां केचन मलिम्लुचास्तत्रोपेत्य रत्नापहारधिया तं चणकग्रन्थिं जह्रुः। एतावता सा तापसी प्रबुबोध, ‘चोराश्चोराः’ इत्याचुक्रोश च। तदाकर्ण्य ग्रामीणाः समाजग्मुस्तेषामन्वेषणाय समन्ताद् बभ्रमुश्च। मलिम्लुचास्तु कथञ्चिदपक्रम्य सान्दीपनेराश्रमे निलिल्यिरे। यदा च ते वस्त्रग्रन्थिमुद्घाटयामासुस्तदा तत्राभरणानि न सन्ति, प्रत्युत चणका एवेति बुबुधिरे। ततस्ते तं ग्रन्थिमाश्रमद्वारि निधाय प्रतस्थिरे।

चणकग्रन्थिं त्वनासाद्य सा तापसी भृशं सन्तताप, ‘ये खल्वमून् चणकान् भक्षयेयुस्ते महादरिद्रा भवेयुः’ इति शशाप च।

प्रातरुत्थाय आश्रमद्वारि चणकान् विलोक्य सान्दीपनिपत्नी भृशं विसिस्मिये। तदानीमेव समिदाहरणाय विपिनं प्रतस्थाते कृष्णकुचेलौ। ततो गुरुपत्नी कुचेलमाहूय ‘अद्य मध्याह्ने युवाममूनेव चणकान् भुञ्जाथाम्’ इत्यादिदेश।

कुचेलस्तु त्रिकालज्ञत्वाच्चणकस्पर्शादेव तत्सम्बद्धं वृत्तान्तं जज्ञे। ‘मा भूत् सख्युर्वासुदेवस्य दारिद्र्यम्, ममैव तद् भवतु’ इति निश्चित्य स मध्याह्ने सर्वानप्यमून् चणकानेकाक्येव बुभुजे।

इत्थं सख्युर्दुर्गतिं वारयितुं दारिद्र्यं स्वयमुपेयुषस्तस्य कुचेलस्य चरितं नितरामनुकरणीयमेव खलु।

Search
stories/225.txt · Last modified: 2026/07/05 12:17