अवातरत् किल षोडश्यां शताब्द्यामप्पय्यदीक्षिताख्यो नानाशास्त्ररहस्यभेदनपटुः, शैवागमाब्धिशशाङ्कः, साक्षान्नीलग्रीवांशसम्भूत इति भुवनेषु प्रथितयशाः कश्चन विपश्चिद्वरेण्यः।
'विजिगीषे तावदमुमप्पय्यदीक्षितं पाण्डित्यप्रकर्षेण' इति मनसि सङ्कल्पं चक्रे तत्समकालमेव चोलमहीपालसभालङ्कुर्वाणः कामाक्षीचरणकमलचञ्चरीको रत्नखेटश्रीनिवासदीक्षिताभिधो मनीषी।
सुदुश्चरं तपस्तेपे भगवतीं कामाक्षीं समाराधयितुमसावप्राकृतप्रयत्नसाध्यामिमां मनीषां सम्यग्जानन्। आविर्बभूव च तस्य पुरस्तात्तदुग्रतपसा समाराधिता सा जगदम्बा, उवाच च— 'वत्स ! भृशं प्रीतास्मि तेऽनयानन्यपूर्वया भक्त्या। वृणीष्वेप्सितं वरम्' इति।
प्रत्युवाच सा जगदम्बा स्वेप्सितेऽमुना निवेदिते— 'अये ! किमर्थमियमस्थाने ते जिगीषा ? मत्सराद्धि वैमनस्यमेव पल्लवयति। न खलु महात्मभिः सार्धं वैरमाचरितुं साम्प्रतम्। तस्मादमुनैवाप्पय्यदीक्षितेन सह सख्यमेव निबध्नीष्व। निजकन्यकां तस्मै प्रतिपाद्य तमेव जामातरं कुरुष्व। अमुनैव मार्गेण ते परं श्रेयः समुदेष्यति' इति।
शिरसा जग्राह स दीक्षितो देव्यास्तमादेशम्। प्रादुर्भूय च तस्यामेव रात्रौ भगवान् पशुपतिरप्पय्यदीक्षितस्य स्वप्ने तमिदमादिदेश— 'अद्यैव काञ्चीं प्रति प्रस्थीयताम्। तत्रत्यः श्रीनिवासदीक्षितः स्वदुहितरं तुभ्यं विश्राणयितुमिच्छति' इति।
काञ्चीमुपेत्य कस्मिंश्चिन्मन्दिरे न्यवात्सीत्स दीक्षितः। तदुपागमनमाकर्ण्य तं दिदृक्षुरुपजगाम श्रीनिवासदीक्षितः। सम्भावयामास चैनमप्पय्यदीक्षित उचितैरर्घ्यपाद्यासनदानपुरस्सरैः सत्कारैः। सविनयं न्यगादीच्च तेनातिथ्येन सुतरां प्रहृष्टः श्रीनिवासदीक्षितः— 'हे विद्वन्मूर्धन्य ! मदीयां तनयां मङ्गलाम्बिकां विधिवदुद्वहन् मामनुगृहाण' इति।
सहर्षमुररीचकार तमिमं प्रस्तावमप्पय्यदीक्षितः। यथाविधि च व्यधायि तयोरप्पय्यदीक्षितमङ्गलाम्बिकयोः पाणिग्रहणसंस्कारः सम्प्राप्ते कस्मिंश्चित्कल्याणमुहूर्ते।